________________
समतासागरचरितम् **
पंन्यासपद्मविजयस्तयोर्द्वितीयः पुत्र आसीद्यः षड्विंशतिवर्षचारित्रपर्यायं पालयित्वाऽसाध्यरोगं न केवलं समाधिनाऽधिसह्य, अपि तु तस्मिन्रोगेऽप्यत्युग्रसाधनां कृत्वा कर्मवैरिणं तिरस्कृत्य स्वर्गमाप्तवाँस्तस्य साधनायाः पराक्रमकथाऽत्राऽऽलिख्यते ।
आषाढ शुक्ल नवम्यां तथौ पवित्रदिवसे सुश्राविका भूरिः पुत्रं प्रसूतवती । मातापित्रादिसकलसम्बन्धिजनाः हृष्टाः । तस्य पुत्रस्य ‘पोपटलाल' इति नाम स्थापितम् । पूर्वभवात् संस्कारान्गृहीत्वाऽऽगतस्य पोपटलालस्यापि दिनचर्या धर्मेण वासिताऽभवत्, प्रभुपूजा- गुरुवन्दनाऽभक्ष्यादित्याग-नवकारसहितप्रत्याख्यान - चतुर्विधाहाररजनिभोजनत्याग - धार्मिकाभ्यासाः तस्य नित्यक्रमोऽभूत्, लेखशालायोग्यवयसि जाते सः पठनार्थ मनसुखश्राद्धस्य शालायां नीतः । ज्येष्ठभ्राता कांतिरपि तत्रैव पठति स्म ।
मनसुखश्राद्धस्य ज्ञानशालायां व्यावहारिकशिक्षणेन सह धार्मिकशिक्षणमपि पाठ्यते स्म । तत्प्रभावात् वयसश्चतुर्दशे हायने द्वितीयकर्मग्रन्थपर्यंतमभ्यासं प्राप्तवान् ।
यौवनवयस्यपि वर्तमाने तस्मिन्सर्वत्र दृश्यमाना स्वच्छन्दता विलासिता च स्वल्पाऽपि नादृश्यत स जन्मत एव विरागवानासीत्, नाटकशालाप्रेक्षणकगृहोद्यानेषु नारज्यत । निर्मलब्रह्मचर्यपालनं तस्य सहजमवर्त्तत । मेट्रिकपर्यंतं व्यावहारिकज्ञानमभ्यस्य सांसारिकहेतुभिः स सेवककर्म कृतवान् । तदार्तुबद्धकाल उपाध्यायप्रेमविजयगणिवर्याः कालुशीपोलिकाया
४
* समतासागरचरितम्
उपाश्रयमध्ये समवसृताः । मुनिश्रीभक्तिविजयशिष्यमुनिश्रीकीर्तिविजयो रोगपीडित आसीत् । तस्य शुश्रूषां स्वशिष्यैस्ते कारितवन्तः ।
पोपटलालस्य उपाश्रयगमननित्यक्रमोऽभूत् । स उपाध्यायवर्याणां प्रत्याकृष्टोऽभूत् । उपाध्यायवर्या अप्यतिशयप्रतिभावन्तः रत्नपरीक्षकाश्चासन् । ते पोपटलालस्य शक्तिं भावनाञ्च ज्ञातवन्तः । तैस्तस्य संसारकूपनिःसरणाय हस्तावलंबनं दत्तम् । पूज्यवर्याणां पवित्रहस्तेन पोपटलालेन यावज्जीवं ब्रह्मचर्यव्रतं गृहीतम् । चारित्रभावस्य वृद्धिर्जाता ।
विक्रमसंवत्सरे नवत्यधिकैकोनविंशतिशततमे उपाध्याय श्रीप्रेमविजयाः स्वशिष्यपंन्यासरामविजयादिभिस्सह चातुर्मासार्थं दोशीवालाप्रतोलिकायां विद्याशालां पूतवन्तः । तेषां स्फटिकसमचारित्रप्रभावेनाकृष्टा केचिद्भावुकास्तेभ्यश्वारित्रप्रेरणां लभमाना आसन् ।
तदानीं पोपटलालस्य ज्येष्ठभ्राता कांतिलालः मेट्रिकपरीक्षामुत्तीर्य लंदनस्य बैंकिंगपरीक्षां प्रथमकक्षयोत्तीर्य राजनगरस्य केंद्रबैंकमध्ये नियुक्तवान् । सोऽप्युपाध्यायवर्याणां संयमसुवासेनाकृष्टश्चारित्रभावनावाँश्च सञ्जातः । इत्थं द्वयोर्भ्रात्रोर्युग्मं जातम्। परस्परं संयमग्रहणेच्छां ज्ञापितवन्तौ । तदानीं स्वजनेभ्यः संयमग्रहणस्यानुज्ञा प्राप्तुमतीव दुर्लभाssसीत् । कदाचिदेव स्वजनानुमत्या दीक्षा अभवत् । द्वौ भ्रातरावपि संयमग्रहणावसरं प्रतीक्षमाणौ स्थितौ । तस्मिन् काल उपाध्यायवर्याः स्वशिष्यपंन्यासजंबूवजियगणिवर्यादि