________________
समतासागरचरितम् 443
परिवारेण सह विहरन्तः चाणस्मानगरं प्राप्ताः ।
तत्र काले चाणस्मास घोऽतीवोत्साहवानभूत् । संङ्घसमक्षं रहसि वा कमपि मुमुक्षं दीक्षां दापयितुं सदैव तत्पर आसीत् । तदा चाणस्मानगरे प्रभूता दीक्षा अभवन् ।
।
एकस्मिन्शुभदिने कांतिलालपोपटलालौ द्वौ सहोदरौ चाणस्मानगरं प्राप्तौ । सङ्घस्योत्साहो मानातीत आसीद्यतो द्वावुत्साहवन्तौ युवानौ संयमं ग्रहीतुं चाणस्मासङ्घसमक्षं उपस्थितौ । सङ्घेन रथयात्रया सह सम्पूर्णग्रामे वार्षिकदानं दापितम् । विक्रमाब्दस्य एकनवत्यधिकैकोनविंशतिशततमे संवत्सरे पौषमासे शुक्लपक्षे द्वादश्यां तिथौ शुभदिन उपाध्यायवर्यपवित्रहस्तेनोभाभ्यां भ्रातृभ्यां चारित्रं स्वीकृतम्, ज्येष्ठ भ्राता कान्तिलाल उपाध्यायवर्याणां शिष्यो जातस्तस्य च नाम मुनिश्रीभानुविजय इति सञ्जातम् । लघुबंधु: पोपट - लालः स्वज्येष्ठबंधोर्मुनिश्रीभानुविजयस्य शिष्यो मुनिश्री - पद्मविजयः सञ्जातः । पवित्रपुरुषाणामागमे सति गुरुदेवानामाचार्यपदारोपणम् ।
उभयभ्रात्रोराराधना प्रारभत। पूज्योपाध्यायवर्याणां सूरिपदप्रतिष्ठापनं यद्वर्षैः दुःसाध्यमभूत्तत्सहोदरयोः पवित्रपादन्यासेन सुसाध्यमभवत्। पूज्यपादगच्छाधिपतिदानसूरीश्वराः पाश्चात्यप्रभूतवर्षैरुपाध्यायवर्यानाचार्यपदं स्वीकर्तुमाग्रहं कुर्वाणा अभवन्। किन्तूपाध्यायवर्यैः कथमपि न तत्स्वीकृतम् । अपि च यदा गुरुवर्या अतीवाग्रहं कृतवन्तस्तदा तेषां नयन आर्द्रेऽभवताम्। तेन दानसूरीश्वराः किमपि विशेषप्रयत्नं कर्तुं
५
६
* समतासागरचरितम्
नाशक्नुवन् । चाणस्मानगरे दीक्षां सम्पाद्योपाध्यायवर्याः पत्तनं पूतवन्तः। तत्र ग्लानमुनिश्रीजिनविजयस्य वैयावृत्त्यं ते स्वशिष्यैः कारितवन्तः। इतो गच्छाधिपतिदानसूरीश्वराः राधनपुरसङ्घस्य विज्ञप्त्या राधनपुरे चैत्रीओलिनिमित्तमागताः । ओलीनिमित्तं महोत्सवः प्रारब्धः । तदैकमुमुक्षोर्दीक्षा निश्चिताऽअभवत् । तथा पंन्यासरामविजयगणिवर्यस्योपाध्यायपदार्पणमपि निश्चितम् । चैत्रशुक्लचतुर्दश्याः शुभदिनं समीपमासीत् । दानसूरीश्वराश्चिन्तातूरा आसन्, 'मम स्वास्थ्यं मुहुर्मुहुरस्वस्थं भवति । यदि मम किंचिदमङगलं स्यात्तर्हि पश्चात्समुदायस्य नायकः कः ? उपाध्यायप्रेमविजय आचार्यपदं स्वीकर्तुमसम्मतोऽस्ति । किन्त्वधुना कश्चिदादेशः प्रेषणीयः । युक्त्या कार्यं सम्पादनीयम्।' तैः पंन्यासरामविजयस्यापि ज्ञापितम् । सर्वे सम्मता अभवन्। गच्छाधिपतिभिः पत्तने संदेशः प्रहितः - 'त्वरया राधनपुरमागन्तव्यम्।' इतश्च मुम्बापूर्या वर्तमानपत्रेषु ज्ञापितं यच्चैत्रशुक्लचतुर्दश्यामुपध्याय- प्रेमविजयानामाचार्यपदप्रदानं भविष्यति। उपाध्यायवर्याणां पत्तन एतावन्मात्रः संदेशो मिलितो यत्सत्वरमागन्तव्यम् । गुरुदेवानां संदेशं पाप्य ते तदैवोद्यता अभवन्। उग्रविहारं कृत्वा द्वितीयदिनसन्ध्यायामेव राधनपुरं प्राप्ताः । हृदये शंकाऽऽसीत् - गुरुदेवानां स्वास्थ्यं सुचारु वर्तते न वा ? उपाश्रयं प्राप्यासने गुरुदेवं स्वस्थं दृष्ट्वा प्रसन्ना अभवन् । गुरुदेवं वन्दित्वा चरणयोरुपाविशन्। सुखशातापृच्छा कृता । गुरुदेवैः कथितमद्यैव निमंत्रणं