________________
समतासागरचरितम् -
M
anager:- ११७
4 ११८
grammar- समतासागरचरितम् ।
पापपाशान्मुच्येयुरात्माचिन्त्यशक्तिं श्रद्दध्यरात्मस्वातन्त्र्यसुखमवाप्नुयुरिति शुभाभिलाषापूर्वकं द्वौ शब्दौ लिखित्वा विरमे । सुज्ञेषु किं बहुना ? -पुण्यभूमिः पुण्डतीर्थम्, धर्मानुरागी 'ऋषभ', ऋषभदास जैन, १२) वन्दनीयविभूतिःशतावधानी पण्डितवर्यशाहटोकरशीपुत्रधीरजलालः । *
सिद्धान्तमहोदधिप्रेमसूरीश्वरपरिचयो गतदशवर्षेभ्यो मम: जातः । तेषां साधुजनोचितसरलताप्रसन्नताशासनसेवापूर्वाभिलाषान्दृष्ट्वाऽहं मुग्धोऽभवम् । तेषां स्वाध्यायप्रेमाद्वितीयमासीत्तपोनिष्ठाऽनन्यसदृश्यासीत् । यदा कदाचिदप्यहं ! तेषां दर्शनार्थमगच्छम् तदा तेषां समीपे विशालं मुनिसमुदायमपश्यम्। तदृश्यं जैनश्रमणविद्यापीठमिवाभासत ।। तत्कुलपतिपदविराजमानाः प्रेमसूरीश्वराः सम्यग्ज्ञानक्रिययोरपूर्वमुद्योतमकुर्वन् ।
क्रमशस्तेषां समीपवर्तिमुनीनां परिचयो जातः । तैरप्यहमतीव प्रभावितः । गुरुदेवकृपा तेष्वविरतमवर्षत् । ते च उत्तमशिक्षापालनमकुर्वन् । मुनिषु पन्न्यासभानुविजयगणिवराणां विशेषः परिचयो जातः। तैश्च साधुताया एकमद्वितीयमविस्मरणीयं चिह्न मद्हृदयेऽङ्कितम् ।
अनेन समुदायेन सह मम परिचयोऽवर्धत । ततोऽहं पन्न्यासपद्मविजयगणिवराणां परिचय आगतः । तदा मया चिन्तितं यदयं समुदायोऽनेकश्रमणरत्नैः भृतोऽस्ति, इदं च । तेषु विरलं रत्नमस्ति ।
ते प्रांशव आसन् । तेषां शरीरं प्रमाणोपेतमासीत् । तेषां वर्णः श्याम आसीत् । ते मधुरकण्ठमबिभः । तेषां मुखमुद्रा प्रशान्ता गम्भीरा चाऽऽसीत्, किन्त्वनेकशस्तेषां मुखकमले मधुरं हास्यमभवत् ।
तेषामात्मा वैराग्यरागेण रक्त आसीत् । मया तेऽनेकशोऽनेकदृष्टिभिर्निभालिताः, किन्तु कदापि तेषु न्यूनतां : नापश्यम् । यत्र वैराग्यमुत्कटमस्ति तत्रोत्तमसंयमपालनमप्यस्ति इति तु निर्विवादमेव ।
मयेदमनुभूतं यज्जीवः प्रथमं वैराग्येण वासितः स्यात् । किन्तु शनैः शनैर्लोकषणापवनस्पर्शनेन तस्य वैराग्यं हीयते। विहितक्रियाकरणेऽपि तस्याध्यात्मिकभावः यशः-कीर्तिप्राप्तेरस्ति, अतः क्रियासु तस्य हृदयं तन्मयं न भवति । तस्य । हृदयेन सह सम्बन्धोऽतीव हीयते । फलतस्तस्य साधना तेजःरहिता भवति सश्च भोगपिपासुरितरमनुष्यसादृश्यं बिभर्ति।
लौकैषणापवनः पन्न्यासपद्मविजयान्नास्पृशत् । अत्र विधाने लेशमात्राऽप्यतिशयोक्तिर्नास्ति । तेऽनेकशो मामकथयन्यत् "सम्प्रति बाह्यभावप्रलोभनान्यतीव वृद्धानि । यदि वयं सावधाना न भवामस्तर्हि प्रसिद्धिपिशाचोऽस्मासु प्रविशति । किन्तु तत्र स्वहितं लुप्यते । जनास्तु स्तोककालं प्रशंसेयुः किन्तु तेनाऽत्मनः को लाभः ?''
जैनधर्मसिद्धान्तेषु तेषां दृढा श्रद्धाऽऽसीत् । 'तमेव सच्चं । निस्संकं जं जिणेहिं पवेइयं इदं सूत्रं तैरात्मसात्कृतम् ।। तेषां तत्त्वरमणताऽप्युत्तमाऽऽसीत् । सूत्रसिद्धान्तांस्ते सततं