________________
* समतासागरचरितम्
aftegort- ११५
4 ११६
orkatra- समतासागरचरितम् ।
निर्बलता दूरीभवत्यलौकिकाराधनाकरणबलं प्रकटीभवति ।। एतत्समर्थनार्थ साक्षादृष्टमेकं प्रसङ्गं वर्णयामि ।
द्विवर्षाभ्यां पूर्व पंन्यासपद्मविजयाः स्वगुरुदेवैः सहास्मत्जन्मभूमौ शिवगञ्जनगरे चातुर्मासं स्थिताः । तदा केन्सरव्याधिना नववर्षैस्ते पीडिता आसन् । तेषां सेवायामहं मुहुर्मुहुर्गत्यागत्यकरवम् । तदा मया तेषु या साधनास्फुर्तिदृष्टा तस्या अंशमात्रमपि नीरोगिमनुष्येषु न दृश्यते । तादृशवेदनादशायां प्रभूता विदूषा राज्याधिकारिणश्च पीडया । पशुवत्कम्पमाना दृष्टास्तदाऽयं महात्मा तु सदैवाध्यात्मज्ञानोत्तमग्रन्थाध्ययने तल्लीना भूत्वा तत्त्वगवेषणात्मानुसंधानेषु । निमग्नो दृष्टः । ते स्वस्थमनुष्यवदुत्साहोल्लासपूर्वकं वार्तालापमकुर्वन् ।
तत्त्वगर्भितगम्भीरज्ञानगोष्ठ्यमूल्यावसरो मयाऽपि लब्धः । समतासुगन्धः समाधेश्च माधुर्य तेषां मुखारविन्देऽभासत। तेषां हृदयसागरे ज्ञान-ध्यान-तपः-जाप-त्याग-वैराग्य-तरङ्गा उदच्छलन् ।
अवसर आगते ते पञ्चदशपञ्चविंशतित्रिंशदुपवासानकुर्वन् । दीर्घतपश्चर्यापारणदिनेऽपि तेऽस्माकमिव रसलोलूपा नासन, किन्त्वधिकतपःकरणभावनावन्त आसन्निति ज्ञापकस्पष्टभावास्तेषां मुखारविन्देऽदृश्यन्त । अस्माकमत्याग्रहेण । यदा पारणमकुर्वस्तदाऽपि पारणे मुद्गजलं दुग्धोत्कालिकं वा नलिकयाऽगृह्णन् । यतः केन्सरव्याधेर्मुखेन ते किमप्यशितुं नाशक्नुवन् । नलिकया द्रवपदार्थ गृहीत्वा ते प्रज्ञापना
भगवतीसूत्रादिरहस्यपूर्णागमसूत्रस्वाध्याये न्यमज्जन् । पठन्तः । पठन्तो यदा ते शारीरिकास्वस्थतामन्वभवस्तदा शास्त्राणि विमुच्य जापमालां गृहीत्वोपांशुजापेन मानसजापेन वा परमेष्ठिध्याने तल्लीना अभवन्। वैखरीजापं ते कर्तुं नाशक्नुवन्यतश्चिरात्तेषां वाक्शक्तिस्थानं पीडाया धाम जातम् । ते वागुपयोगं कदाचिदेवाऽनन्यगत्यैवाऽकुर्वन् । ते स्वीयमनो-* भावान् लिखित्वाऽदर्शयन् । व्याधिपीडां विस्मृत्य त एकाग्रचेतसाऽलिखन् । तेषां लेखनकौशलं समभावश्च तल्लिखितपत्राणां पठनेनैव ज्ञायते । वयं तु तत्पठनेन विस्मयस्मेरा अभवाम।। तेषां सहनशीलतां धीरतां च दृष्ट्वा सनत्कुमारमहर्षिः स्मृतिपथमागच्छत् ।
तेषामात्मन्यनन्तशक्तिस्रोतोऽवहत्। सूर्यतेजसि ताराण्डलतेजस्तिरोभवति तथा तेषां समताज्योतिषि वेदना तिरोऽभवत् । यथा नद्युत्तरणसमयेऽवतीर्णप्रथमपुरुषः पृष्ठवर्तीनामालम्बनीभवति तथाऽस्मिन्युगेऽयं महात्माऽऽत्मविद्यासाधकेभ्यो महदालम्बनरुपः सञ्जातः । आध्यात्मिकविद्यारहस्यज्ञापकं तेषां जीवनं विज्ञानयुगे नूनं प्रत्यक्षदृष्टान्तरुपमस्ति । भूतकालीनदृष्टान्तेष्वविश्वसतां मोहनिद्रामस्य महात्मनः प्रत्यक्षप्रमाणभूतं चरित्रं नाशयिष्यति। आत्मविकासात्युपयोग्येतचरित्रं दत्तावधानतया पठितव्यमिति पाठकवर्गमभ्यर्थये । अत्र लिखितानि वस्तूनि मया साक्षादनुभूतानि । तस्य साक्षिभूतामेनां प्रस्तावनां प्रस्तवीमि । सर्वे जीवनविकासार्थं प्रोत्साहनमवाप्नुयुः पौद्गलिकसुख