________________
समतासागरचरितम्
आसन् । तेषां दृढत्वं रागद्वेषनिमित्तं नाभवत् । तत एव ते सिद्धान्तनिष्ठा आत्मार्थिनश्चासन् । आत्मकल्याणसाधनाकृते तेषामान्तरजागृतिरतीव प्रबलाऽऽसीत् । ततः शारीरिकव्याधिप्रसङ्गेऽपि ते कदापि संयमं न लोपितवन्तः ।
१११
गुरुजनविनयस्य बालग्लानवैयावृत्त्यस्याश्रितवात्सल्यस्य च तेषां जीवनेऽद्भूतसमागमोऽजायत । ते जीवनसाधनां सुष्ठ्वसाधयन् । तैः स्वजीवनं धन्यीकृत्य मृत्युं पराजि - त्यात्मामरत्वोदाहरणं संसारवत्र्त्त्यात्मार्थिजीवानां समक्षं स्थापितम् । तेषां जीवनमेव प्रेरणारुपमासीत् । आत्मार्थिजीवाँस्तेषां जीवनं समदिशद्यत् अप्रमत्ता भूयास्त । ते समाधिमन्तः शान्तिमन्तश्चासन् । ते बाह्योपाधिभ्यो निरपेक्षा आसन् । जीवनपर्यन्तं ते साधनामार्गनिष्ठावन्त आसन् । इदं त्वादर्शभूतम् । जीवनान्तिमक्षणं यावदसाध्योग्रप्रबलतमव्याधिपीडासु सत्स्वपि तेषामात्मा स्वयंभ्वात्मस्वभावेऽरमत सदैव च प्रसन्नोऽभवत् । शारीरिकव्याधिषु सत्स्वपि तैः प्रसन्नताशान्तिसमाधिचित्तस्वास्थ्यानि धृतानि । इदं त्वतीव दुष्करम् । प्रेमसूरीश्वरान्प्रत्यद्भूतश्रद्धापूर्वसमर्पणवृत्तिं तेऽधारयन्। तैः प्रेमसूरीश्वरचरणयोः स्वीयं सर्वस्वं समर्पितम्। ततस्ते लघुचारित्रपर्यायेऽपि प्रभूतं प्राप्नुवन् । साम्प्रतीनमनुष्यदुष्करा विषमा उत्तमाराधनास्तेषां जीवन आसन् । तेषां जीवने जागृति- समाधि - स्थिरता - सात्त्विकता आसन् । तद्बीजं तु तेषां हृदये वर्तमाना प्रेमसूरीश्वरान्प्रत्यप्रतिमश्रद्धैव ।
* समतासागरचरितम्
जीवनान्तिमक्षणं यावद्यां समाधिं तेऽधारयन् साऽऽराधकात्मयाचनायोग्या प्रतिभवनिदानयोग्या चासीत् । अन्तिमक्षणं यावदाराधना-भक्ति- वैयावृत्त्यादिकं यत्ते प्राप्नुवंस्त द्राज्ञामपि दुर्लभमस्ति । तन्मूलं तु परमकारुणिकपरमगुरुदेवकरुणैव ।
११२
ते जीवनमसाधयन् । ते यत्रापि भविष्यन्ति तत्र तेषामात्मा स्वीयोज्ज्वलाराधनाप्रभावेण सद्गतिं प्राप्य शाश्वतसुखभोक्ता भविष्यतीति तु निःशंकम् । अस्माभिस्तु तेषामाराधकभावानुपमसमाधिसंयमसाधनाजागृतिभ्यः श्रद्धाञ्जलिर्दातव्या । तद्द्वारेण च तेषां जीवनादाराधनाप्रेरणां प्राप्य जीवनं जीवितुं शिक्षितव्यम् । धन्या जीवनसाधना ! आत्मार्थिसंयमिमुनीश्वरात्मसमाधये कोटिशोऽभिनन्दनानि !
१०) साधुरत्नं - पंन्यासकान्तिविजयगणिवरः,
( वर्धमानतपोनिधयः) पत्तननगरे
युष्माभिः पंन्यासपद्मविजयगणिवराय दत्तानि प्रेरणाप्रोत्साहनान्यनुमोदनीयान्यनुकरणीयानि च सन्ति । भयङ्करवेदनास्वपि तैः सततं समता धृता । अन्तिमक्षणे च राधावेधं साधयित्वा समाधिमरणं लब्धम् । तस्य भूरि भूर्यनुमोदनाः । 'ईदृक्समाधिमरणं प्राप्नुयाम्' इति शासनदेवः प्रार्थनीयः । प्रेमसूरीश्वरैर्युष्माभिश्च (पन्न्यासभानुविजयैः) तेऽद्वितीयामाराधनां कारिताः । सा समुदाये आदर्शरूपाऽस्ति । तदाराधनायाः साक्षाद्द्रष्टा नूनं भाग्यशाल्यस्ति । तैः कृता समुदायसेवाऽविस्मरणीया भविष्यति। समुदाये तत्स्थानग्रहणसमर्थोऽन्यः