________________
समतासागरचरितम्
१०५
द्वयोर्युद्धं जायते, एकतः सा सामग्री मन आकर्षत्यन्यतश्च मनःनियन्त्रणायाऽऽत्मना प्रबलः पुरुषार्थः कर्त्तव्यो भवति । अस्मिन्युद्धे विजेतुं दुःशक्यम् । ततो मुनि-जीवन इदं महत्कष्टरूपं वर्त्तते ।
यस्य मनो निर्मलं, यस्य मनसि जीवनशुद्धिध्येयं प्रकटितं येन तत्कष्टविजयावश्यकगुरुकृपामाहात्म्यं ज्ञातं स एव विरल आत्मा गुरुकृपाबलेन सत्त्वं प्रकटय्य स्वकीयसाधनायां सफलीभवति ।
गृहिपर्याये मातृपित्रादिगुरुजनाज्ञानुसारेण जीवनं दुःशक्यम् । ततोऽपि दुःशक्यतरं साधुजीवने गुर्वाज्ञापालनम् । मानविजेता सत्त्वशाली साधुरेव बाह्यप्रलोभनानि परित्यज्य दासीभूय गुरुचरणयोर्जीवितुं शक्नोति ।
कश्चित्पुण्यहीनः सत्त्वहीनश्च गुरुसेवां वृणुयात् गुरुपुण्योदयेन च स्वजीवननिर्वाहं कुर्यात् । किन्तु पद्मविजयानां जीवने तु तथा नासीत् । गृहिपर्यायेऽपि ते समृद्धा आसन् । संयमजीवनेऽपि त्यागवैराग्यपुण्यबलेन स्वातन्त्र्येण विहर्तुं समर्था आसन् । किन्तु केवलं जीवनं जीवितुं ते नाकाङ्क्षन् । आत्मशुद्धिं तत्कृते च गुरुकृपां सम्पादयितुं तेषां ध्येयमासीत् ।
तत आप्रव्रज्यायास्ते गुरुसेवारता अभवन् । तत्प्रभावेण ज्ञानक्रियोभयसाधनां ते कर्तुमशक्नुवन् । गुरुभक्तिबहुमानौ सम्यग्ज्ञानप्राप्तौ तेषां सहायीभूतौ । अर्जितज्ञानञ्च च तान्गुरुसेवाविनयवैयावृत्त्यादिक्रियासु निमग्नानकरोत् ।
* समतासागरचरितम्
विनयभक्तिबहुमानैर्ज्ञानप्राप्तौ ते रता आसन् । तैरेकेनैव वर्षेण षट्सहस्रश्लोकप्रमितं सिद्धहेमशब्दानुशासनं सलघुवृत्तिकं कण्ठस्थीकृतम् । ततस्तैस्तस्याष्टादशसहस्रश्लोकप्रमिता बृहद्वृत्तिः पठिता । ततः संस्कृतकाव्य-कोष - साहित्यन्यायदर्शन-प्रकरणग्रन्थानामभ्यासस्तैः कृतः । इत्थं मौलिकतत्त्वज्ञानं भाषाज्ञानं च प्राप्य तत्त्वमहासागरागमग्रन्थाः परिशीलितास्तैः । तथा च तैः पञ्चचत्वारिंशदागमाभ्यासः कृतः । निशीथव्यवहारादिसंयमोपयोगिमहाग्रन्थपदार्थानां पुस्तिकाऽपि तैर्लिखिता ।
अनेन ज्ञानप्रकाशेन तैरात्मस्वरुपं ज्ञातम् । स्वरुपशुद्धात्मनि वर्त्तमानेन कर्मकचवरेण तेऽदूयन्त । कर्मकृतात्मविचित्रदशां ते सोढुं नाशक्नुवन् । भोगपिपासुकर्मविवशजीवेन भयङ्करभवे भ्रमता सोढानि दुःखानि ते शास्त्रचक्षुषाऽपश्यन्। तद्विनाशार्थं त उदतिष्ठन् । भोगबुभुक्षानाशनार्थं ते तप आश्रितवन्तः । दिनमध्ये सकृदेव निरीहभावेन शरीरं पोषयित्वा ते तेन प्रभूतं कार्यं कृतवन्तः ।
स्वाध्यायतत्परता, गुरुजनबालवृद्धतपस्विग्लानमुनिसेवारुचि, सर्वेभ्यः सन्मानदानं सर्वेषां संयमसाधनायां यथायोग्यं सहायीभवनमित्यादीनि कर्त्तव्यानि तेषां प्राणभूतानि जातानि । अन्यसाधुपाठनं, संयमशिक्षाप्रदानं संयमस्थिरीकरणं, संयमविकासकारणं इत्यादिकं तु तेभ्योऽतीवाऽरोचत, ततो गुरुदेवास्तत्कर्त्तव्यभरनिर्मुक्ताः प्रसन्नाश्चाभवन् ।
फलतः शताधिकसाधुनेतृगुरुदेवानामत्यधिका कृपा
१०६