________________
, समतासागरचरितम्
meimerikant ९९
4 १०० +gankrapatoreray+00- समतासागरचरितम्
*
-
चास्माभिः सहाऽवसन् । रोगिणस्तु प्रभूता दृष्टाः । किन्तु । पद्मविजयास्तु रोगपीडितत्वेऽपि रोगसहनकातरा नासन् । ते लेशमात्रमप्यार्त्तध्यानं नाकुर्वन् । सम्पूर्ण दिनं यावन्मया सहोपविश्य शासनहितात्मचिन्तन-प्रवर्त्तमानशासन-परिस्थिति-शास्त्रज्ञानविज्ञान-वार्तालापमकुर्वन् । मया चिन्तितंकीदृक्सामर्थ्यवानयं मुनिः कीदृश्यस्तस्य शोभना भावनाः ! * आयतिहितस्य कीदृशमादर्शदर्शनम् ! प्रवचनसमये मया ते: विज्ञप्ता यद्यूयं प्रकाशयत । तदा शरीरेण ते निर्बला आसन्। मनसा च निरीहा आसन् । तथापि लाक्षणिकशैल्याऽल्पं किन्तु तर्कपूर्णमभाषन् । अद्यावधि तद्वचनान्यहं स्मरामि। तेषां वचनानि दृढानि किन्तु रोगरहितानि, शास्त्रीयदृष्टांतयुक्तानि किन्तु सरसानि, सूक्ष्मतत्त्वयुक्तानि किन्तु सुज्ञेयान्यासन्। इदं मया तेषामल्पसमयप्रवचनेऽनुभूतम्। सत्यस्वीकारसरलता, भयङ्करव्याधावपि नमस्कारमन्त्रजापः, बाह्याभ्यन्तरतपःकरणेच्छा, प्रतिक्षणं संयमशुद्धिचिन्ता, सहवर्तिमुनियोगक्षेमकरणं, गुरुदेवाज्ञापालनैकबद्धलक्ष्यता, विनयधर्मोपासना, प्रतिकूलसंयोगेऽपि प्रसन्नमुखाकृतिः, गाम्भीर्य, प्रशान्तता, अन्यसद्गुणग्रहणौदार्य- इति तेषां गुणास्तेषां परिचयेन मयाऽनुभूताः । अत्र लेशमात्राऽप्यतिशयोक्तिर्नास्ति, किन्तु यथानुभूतमेव मया लिखितम् ।
तेषां धर्मप्रवृत्त्या प्रशांतप्रकृत्या च विश्वविश्वमाकृष्ट, उपासकगणश्च जैनधर्मरसपानं कारितः । भूरि भूर्यनुमोदना महामुनीनां महाधर्मसुकृतस्य !!!
६) पण्डितमरणम् ।
- पन्न्यासभद्रङ्करविजगणिवराः, पिण्डवाडा ।
जिनशासने त्रिविधमरणं प्रकीर्तितम् । तद्यथा- बालमरणं बालपण्डितमरणं पण्डितमरणञ्च । प्रथमं मिथ्यादृष्टेः, द्वितीयं सम्यग्दृष्टिदेशविरतयोस्तृतीयं सर्वविरतस्य। बालमरणमकाममरणमज्ञानमरणं जन्ममरणानुबन्धकृन्मरणं कथ्यते। अनेन मरणेन जीवोऽनेकशो मृतपूर्वस्तथापि किश्चित्कल्याणं न जातम् । यदा जीवः सज्ञानदर्शनो म्रियते तदा तस्याऽविरतस्य देशविरतस्य वा मरणं बालपण्डितमरणं कथ्यते। सर्वविरतस्य तु मरणं पण्डितमरणं कथ्यते । प्राप्तजिनशासनसर्वसम्यग्दृष्टिजीवानामयं परममनोरथोऽस्ति यत्पण्डितमरणेन मर्त्तव्यम् । कस्यचिदेव भाग्यशालिनः सः मनोरथः सफलीभवति । पण्डितमरणानुभवस्त्वतिदुर्लभोऽस्ति । किन्तु पण्डितमरणदर्शनमप्यतिदुर्लभमस्ति । सो दुर्लभो योग इदानीं । प्रेमसूरीश्वरनिश्रायां चातुर्मासस्थितैः श्रमणैर्लब्धः । तेष्वेकोऽहमप्यासम् ।
पद्मविजयाः शास्त्रोक्तपण्डितमरणसर्वसंयोगान्लब्धवन्तः । अनेकवस्तेऽसाध्यकेन्सरव्याधिना पीडिता आसन्। तथाप्यान्तरप्रसन्नतामधारयन् । तदरहस्यजिज्ञासा सर्वाराधकात्मनामस्ति ।
यौवनमध्याह्ने ते प्रव्रजिताः । गुरुनिश्रायां दीर्घकालं । यावत्शास्त्राध्ययनं तैः कृतम् । अकस्मात्ते व्याधिना प्रहृताः। तथापि भयङ्करव्याधौ त आर्तध्यानं नाकुर्वन् किन्तु धर्म