________________
समतासागरचरितम् **
सम्यग्दर्शनज्ञानचारित्रोपवनं सदैव विकसद् भूयात् ।
गुणानुवादसदसि । ३) पन्न्यासभानुविजयाः - (पश्चात् आ. भुवनभानुसूरीश्वराः) आबाल्यादावां सहैवाऽऽस्ताम् । आवामेकमातापितृपुत्रौ । तथापि पद्मविजयानां वैराग्यभावो मत्तोऽधिक आसीत् । अहं तु विद्यालये पठित्वा संसारे प्रगतिकरणमनोरथान्सेवितवान् । तदापि तेषां वैराग्यभावना प्रबलाऽऽसीत् । पश्चात्तु ममाऽपि गुरुदेवसंयोगो जातः, ततो वैराग्यभावो दृढोऽभवत् । आवाभ्यां सहैव चारित्रमङ्गीकृतम् । एकस्मिन्नेव दिने सहैवावां दीक्षितौ, तथापि पद्मविजयैर्यावज्जीवमद्वितीयः समर्पितभावः पूज्यान्प्रति दर्शितः । तत्प्रभावेणैव भयङ्करव्याधावपि तेषां समाधिः सुलभा जाता। साऽप्यनन्याऽऽसीत् । ते 'लोगस्स'सूत्रस्य जापं प्रभूतमकुर्वन् । लोगस्ससूत्रे परमात्मनः 'समाहिवरमुत्तमं प्रार्थ्यते । सा समाधिस्तैः स्वजीवने साक्षात्प्राप्ता । तथा च स्वीयं जीवनं धन्यं कृतम् ।
- गुणानुवादसदसि ।
-
-
९७
४) श्राद्धवर्यपुखराजः
ह्यः स्मशानयात्रानिर्गमनानन्तरं देववन्दनं कृत्वा पूज्यप्रेमसूरीश्वरैर्मुनिभ्यः संक्षिप्ता किन्तु बोधदायिका हितशिक्षा प्रदत्ता । तदुद्गाराऽस्माञ्ज्ञापयन्ति यत्तेऽतीव महान्त उत्तमाश्चासन् । ते निःस्पृहसत्तमा आसन् । तैः स्वाराधनया प्रेमसूरीश्वराणां मनो जितम् । प्रेमसूरीश्वरवचनामृतपानेनेत्थं भासते यदद्य पिण्डवाडानगरं द्विगुणं तीर्थधाम जातम् ।
***** समतासागरचरितम्
अध्यात्मजगति दीप्यमानं तत्तारकमस्तमितम् । तेषामग्निसंस्कारानन्तरमेका चमत्कृतिर्घटिता। पेरेलिसिसरोगेण तेषामेकं नेत्रमावर्षात्पिहितमासीत् । अग्निसंस्कारानन्तरं तु द्वेऽप्यक्षियुद्घटिते । स्तोकक्षणानन्तरञ्च पुनर्मीलिते। सर्वैरेषा नेत्रचमत्कृतिर्दृष्टा ।
गुणानुवादसदसि ।
५) पूज्याचार्यभुवनतिलकसूरीश्वराः
यौवनप्रवेश एव ते त्यागपूजका जाताः । यौवनं तु संकल्पविकल्पयुक्तमस्ति । तथापि तैस्तस्मिन्नुत्तमभावनापरिणामसंयमतपस्तूर्याणि वादितानि । तेषां परिचये सकृदप्यागतो मनुष्यस्तेषां गुणसुगन्धं कदापि विस्मर्तुं न शक्नोति । रोगरिपौ प्रहरति सत्यपि तेऽप्रमत्ता आसन्, आत्मचिन्तनलीना •आसन् । तेषां शरीरं तु तेषां सहायो नाभवत्तथाप्यात्मसामर्थ्येन ते स्वसाधनामग्ना आसन् । त आत्मशुद्ध्यर्थमेवोत्कण्ठिता आसन् । ते सततं स्वाध्यायरताः स्वानुष्ठानक्रियोपयोगपराः, सहवर्त्तिसाधुसंयमशिखरयात्राकारणोत्तममनोरथवन्तः, जैनदर्शनैदम्पर्यज्ञानप्राप्तिप्रयत्नवन्तश्चासन् । जिनालये प्रभुदर्शनसमये मूर्त्तिमत्तीर्थंकरमीलनोत्थानन्दस्तेषां मुखपङ्कजेऽदृश्यत । ते जिनप्रासादे भक्तिरसनिर्भरस्तवनानि किन्नररागेण यदाऽगायंस्तदा तेषां तन्मयतैकाकारतागुञ्जनभावनाः मूर्त्ति - मत्योऽभवन् । वि.सं.२०१५ वर्षेऽहं सुरतनगरे हरिपुरोपनगर आसम् । ते मुम्बापुर्या रोगचिकित्सां कारयित्वा राजनगरं प्रतिगच्छन्त आसन् । तदा वन्दनार्थं त आगता एकमहोरात्रं
९८