________________
समतासागरचरितम् -00-
00-
00-
९५
4 ९६
earlierror- समतासागरचरितम्
परिशिष्टः १
हृदयोद्गाराः अनेकमहापुरुषसाधुसाध्वीनां हृदये पद्मविजयान्प्रति कीदृग्भाव आसीत्ततेषामुद्गारैयिते । किश्चैतेषूद्गारेषु पद्मविजयानां विशिष्टगुणसाधनादर्शनमपि जायते । (१) पूज्यपादसिद्धान्तमहोदध्याचार्यदेवश्रीमद्विजयप्रेमसूरीश्वराः
'अद्य कैश्चित्शोकः प्रकटितः कैश्चिच हर्षः प्रदर्शितः। एकस्य सुसाधोर्वियोगो जातः । सः स्वयं निर्मलं संयम । प्रपाल्यान्यांस्तत्पालने साहाय्यमकरोत्। तेषां वियोगेन मन उद्विजते, किन्तु तत्कृतस्वाराधनाया आनन्दस्तु अधिकोऽस्ति । संसारे जन्ममरणानि न नूतनानि । सांसारिकप्रवृत्तयः पापाय भवन्ति, मुनिमार्गप्रवृत्तयस्तु मुक्तिसाधिकाः भवन्ति । पद्मविजया अत्युत्तमं जीवनमजीवन्। अस्मत्समुदायेऽनेके साधवः सन्ति, ते गुणवन्तः सन्ति, आज्ञापालकाः सन्ति । तथापि पद्मविजया अधिकं स्मृतिपथ आगच्छन्ति यतस्ते सुविशुद्धसंयममपालयन्नतुल्यसमर्पितभावं चाधारयन् । अन्यच ते रोगविषमस्थितावप्याराधनामकुर्वन् । रोगदशायां ते मासक्षपण-चतुर्विशत्युपवासादिकास्तपश्चर्या अकुर्वन् । तत्रापि दिनकाले स्वाध्यायजापादिकं रात्रौ च जापमकुर्वन् । ते मां कथितवन्तः यद्युष्मत् निस्सीमकृपयाऽऽराधनाया आनन्दो वर्तते । लेशमात्रमपि दुःखं मम हृदये नास्ति । ईदृगरोगदशायामपि ते सद्विचारानेवाऽकुर्वन्।
आर्तध्यानस्य त्ववकाशमेव न दत्तवन्तः। तादृशा विरला एव सन्ति । तत्पश्चात्पूज्यैर्गुरुधर्माः प्रज्ञापिताः ।
- गुणानुवादसदसि ।। २) पंन्यासहेमन्तविजयगणिवराः(पश्चात् आ.हीरसूरीश्वराः)
वि.सं.१९९१ वर्षे पोषशुक्लद्वादश्यां ते प्रव्रजिता ह्यश्च कालगताः । तेषां सम्पूर्णजीवने हृदयस्थैकैव भावनाऽऽसीद्यत्संयमं सुष्ठ पालयित्वाऽन्यान्संयमे साहाय्यं कर्त्तव्यम्।। श्रद्धाविषये तु तेऽतीव दृढा आसन् । शास्त्रपठनपाठनेषु ते प्रयत्नवन्त आसन् । व्याधिदशायामपि तपः स्वाध्यायं चाकुर्वन् । बाह्यतपसा सहागमपठनमेतादृशरोगावस्थायां दुष्करमस्ति । एतादृशः सुयोगः पुनर्भाग्योदयेनैव जायते। 'आज्ञापालनं तेषां मुख्यो गुण आसीत् । जिनाज्ञापालने जिनाज्ञार्पितचित्तगुरुदेवाज्ञापालने च ते सदैव तत्परा आसन्। मम तैः समं बाह्यपरिचयोऽल्प आसीत्, किन्त्वान्तरिकपरिचयः प्रभूत आसीत् । तेषां जीवनस्येदमेव सारमासीद्यत्गुर्वाज्ञां प्रधानां कृत्वा संयम स्वयं पालनीयमन्यैश्च पालनीयं, ज्ञानमपि संयमपुष्टयर्थं पठितव्यम् । पद्मविजया गच्छचिन्तायां कर्तव्यायां प्रेमसूरीश्वराणां सहायभूता आसन् । तत पूज्या निश्चिन्ता आसन् । तेषां स्वर्गगमनेन समुदाय एतत्तेजस्वितारकं लुप्तम् । समुदाये प्रभूताः भाग्यशालिनः सन्ति किन्तु यो गच्छति तस्य स्थानं नान्यः कोऽपि ग्रहीतुं शक्नोति । अभिलषामि यत्- प्रेमसूरीश्वरनिश्रायां पुष्पितफलितं