________________
समतासागरचरितम्
दिनं रात्रीं वाऽपि न ज्ञातवन्तः । किन्तु प्रतिदिनाभ्यासात्तेषां मुखात्शब्दा निसृताः- 'प्रतिक्रमणसमयो जातो न वा ? प्रतिलेखनं करणीयं न वा ? मया लोचः कारयितव्यः । मया जापः कर्त्तव्यः । एते शब्दास्तेषामान्तरपरिणतिमसूचयन् । तेषां मनसि सदेदृग्मनोरथा अभवन् । आर्त्तध्यानस्य तु लेशमात्रमप्यवकाशं ते न दत्तवन्तः ।
श्रावणकृष्णैकादशीकालदिनमुदितम् । सृष्टयैतद्दिनं कलङ्कितं कर्तुं निश्चयः कृतः । अतीवनिर्बलताप्रभूतदिनास्वापाभ्यां पद्मविजयाः प्रभाते मूर्च्छिता आसन् । सर्वैश्चिन्तितं यत्ते सुप्ताः सन्ति । किन्तु गुरुदेवाः सावधाना आसन् । ततस्तैः कथितं- 'पद्मविजय ! किं त्वं स्वपिषि ? पश्य, अधुना सूर्य उदितोऽस्ति । नमस्कारमन्त्रं किं त्वं श्रोष्यसि ? किं त्वं जापं करिष्यसि ?' कर्मभयङ्कराक्रमणेन प्रभूतवर्षान्यावत्पीडाभिस्ते दमिताः, मनोऽपि निर्बलीकृतम् । किन्तु वीतरागशासनाराधनार्थं तेषां भावना प्रबलाऽऽसीत् । समाधिमरणार्थं तैः प्रभूतवर्षान्यावद्यत्नः कृतः । केन्सरव्याधावप्यनेकविधोपचारानुकूलतायुक्तमुम्बापुरीराजनगरादिनगरापरित्यज्य ते केवलं गुरुसान्निध्याय महत्त्वं दत्त्वा यत्र सामान्यडोक्टरोऽपि कृच्छ्रेणामीलत्तत्र लघुग्रामेषु गुरुभिः सहैवाऽवसन् । विषमपरिस्थितावपि ते कदाचिदपि गुरुभिः पृथग्विहरणाय नाभ्यलषन् । गुरुदेववचनैस्ते झटित्या चेतनावन्तः सञ्जाताः । 'अरिहन्त' पदस्य जापस्तैः प्रारब्धः । मुनिभिस्तेभ्यः श्रावणं प्रारब्धम् एकादशवादने तेऽधिकम
९१
*****- समतासागरचरितम्
स्वस्था जाताः। पूज्ययशोदेवसूरि - पन्न्यासभद्रङ्करविजयपन्न्यासत्रिलोचनविजय- पन्न्यासभानुविजयादिसर्वश्रमणा उपस्थिताः। साध्व्योऽप्यागताः । श्रावक श्राविका अपि समागच्छन् । चतुर्विधसङ्घेन तालबद्धरीत्या नमस्कारस्य लयः प्रारब्धः। 'नमो अरिहंताणं' इतिपदस्य तालबद्धध्वनिरगुञ्जत् ।
पद्मविजयास्तु पंन्यासभानुविजयानां सांसारिकावस्थायां लघुबन्धवो दीक्षानन्तरं च प्रथमशिष्या आसन् । तेन पन्न्यासभानुविजयाः पद्मविजयानामुपरि स्निग्धा आसन्। तथापि ते मनः प्रबलीकृत्य तेभ्यः समाधिप्रेरणा दत्तवन्तः । भानुविजयास्तानन्तिमाराधनामकारयन् । पद्मविजया अपि तीव्रपीडासु सत्स्वप्येकाग्रचित्तेन नमस्कारमन्त्रश्रवणमेवाऽकुर्वन् । सार्धैकवादने तेषामस्वास्थ्यमचारुतरं जातम् । गुरुदेवैः पृष्टम् - "पद्मविजय ! किं शृणोषि ?" तैर्मस्तकं धूनयित्वौमिति ज्ञापितम् । तूर्णं गुरुदेवैरन्तिमाराधना प्रारब्धा- 'खामेमि सव्वजीवे...' सर्वे जीवाः क्षमिताः । 'केवलमर्हन्नेव ध्यातव्यः । ' 'नमो अरिहंताणं' पदस्य ध्वनिरगुञ्जत् । तेषां श्वासोच्छ्रासा अपि तीव्रवेगेनाऽचलन् । चतुर्विधसङ्घमुखात् 'नमो अरिहंताणं' पदस्य ध्वनिं शृण्वन् संयमपूतसमाधिमग्नः तेषामात्मा पार्थिवदेहं विमुच्योर्ध्वलोकवासी जातः । ते पिण्डवाडाधरायां चिरनिद्रायामस्वपन् । सर्वान्खिन्नीकृत्य ते गताः । अन्तिमक्षणं यावत्पूर्णसमाधिं धृत्वैतैर्महापुण्यात्मभिर्मृत्युर्जितः । नूनं समाधिमृत्युरेव मृत्युविजयोऽस्ति । कथितं च शास्त्रकृद्भिः 'ये पण्डितमरणेन म्रियन्ते ते जन्ममरणपरंपरां विध्वस्योत्कर्षेण
९२