________________
में समतासागरचरितम् +0mentarger- ८७
4 ८८
gork
- समतासागरचरितम्
पद्मविजयानामप्याराधनायां वेगो वर्धमान आसीत् ।। व्युपवासानन्तरं गुरुदेवेच्छया तैः पारणं कृतम् । दिनानि व्यतीतानि। रोगाभिद्रवणं वर्धमानमासीत्। यथा यथा व्याधिरवर्धत तथा तथा तेषां समाधिरप्यवर्धत । प्रेमसूरीश्वरा अपि तेषां समाध्यर्थ दत्तावधाना आसन् । पूज्ययशोदेवसूरिपन्न्यासभद्रङ्करविजयपन्न्यासभानुविजयादयो मुहुर्मुहुः समाधिजनकश्लोकानश्रावयन्प्रेरणां चाकुर्वन् । सर्वे मुनयोऽपि सेवायां तत्परा आसन् । पिण्डवाडासङ्घोऽपि तेषां शुश्रूषायां जागरुक आसीत् । तैराराधनायज्ञः प्रारब्धः।
मुम्बापुर्या हरिभाइडोक्टर आहूतः । तेन कथितं यत् : पद्मविजयानां फिप्फिसबहिर्भागे स्फोटोऽस्ति। तस्य निवारणार्थं तेनोपचारा अपि दर्शिताः। उपचारैः स्तोकैर्दिनैः पीडाहानिर्जाता। किन्तु कर्मविलसितं विचित्रमस्ति। उदरयोजितनलिकायाः समीपवर्तिप्रदेशाद्रवपदार्था अस्नुवन् । ततोऽशक्तिर्वृद्धा । मुम्बापुर्याः पुनो हरिभाइडोक्टर आगतः । तेन कथितं यत्- 'उपरिवर्त्तिछिद्रं विशालं जातमस्ति । ततो सीवनं कर्त्तव्यम् ।' सिरोहीनगराच्छस्त्रक्रियानिष्णातडोक्टरेणाऽऽगत्य स्यूतम् । किन्तु कोऽपि लाभो न जातः । क्षुधातृषे त्वतीवापीडयताम् । शरीरशक्तिस्त्वत्यंत हीना जाता।। आषाढकृष्णचतुर्दश्यमावास्यादिने तीव्रवेदनायां व्यतीते ।। वक्षसि पार्श्वयोश्च शूलमुत्थितम् । ततः ते स्वप्तुमुपवेष्टुं वा । कृच्छ्रेणाशक्नुवन्। काशनं तु प्रभूतवर्षेः प्रवर्त्तमानमासीत् । तदपि वृद्धम् । काशनसमये वक्षसि शस्त्रप्रहारस्येव वेदना
ऽभवत्। सर्वे चिन्तातुरा आसन्। तौ द्वावशुभदिवसौ व्यतीतौ । त ईषत्स्वस्था जाताः । एतत्स्थितौ ते तु सदैव जागरुका आसन् । कर्मविपाकचिन्तनाहदादिशरणस्वीकारजापगुरुबहुमानादिभिस्ते स्वात्मानं सदैव समाधावेवाऽस्थापयन् । एतादृशभयङ्करशारीरिकपरिस्थितावपि तेषामा- राधनां दृष्ट्वा सर्वे विस्मयस्मेरलोचना अभवन् । कस्याञ्चिदपि वेदनायां ते दीनवचनानि नोदचारयन्, सदैव तेषां मुखे प्रसन्नतैवाऽदृश्यत । ते सदैव चित्तं प्रभुध्यान एवाऽस्थापयन्। इदं सर्वं द्रष्टुर्विस्मयकार्यभवत् ।
श्रावणकृष्णप्रतिपदि प्रभाते हस्तपादाकर्षणं जातम् । मुखं श्यामं सञ्जातम् । वैद्यडोक्टरैस्तेषां जीवनाशा त्यक्ता। किन्त्वेकेन वैद्येन हिरण्यगर्भप्रयोगः दर्शितः । तेन स्फूर्तिरागता । पद्मविजयैः सर्वैः सह पुनः क्षमायाचना कृता । महाव्रतोचारणं कृतम् । प्रेमसूरीश्वरैः प्रेरणा कृता- 'आराधनायामेव चित्तं स्थिरीकर्त्तव्यम् । ईषदप्यार्तध्यानं न कर्त्तव्यम्। श्रीनमस्कारमहामन्त्रध्यान आत्मा तल्लीनः कर्त्तव्यः। स एव तात्त्विकोपचारोऽस्ति, बाह्योपचारास्तु निमित्तमात्रमेव सन्ति।'
पूज्यपन्न्यासभद्रङ्करविजयगणिकृतप्रेरणा
'मृत्युसमये शरीरे पीडा वर्धते । तदा समर्थं मनोऽपि शास्त्रस्वाध्यायं कर्तुं न शक्नोति। तदा संवेगजनकैकपद एव मनः स्थिरीकर्तव्यम् । इत्थमेकपदमेकवाक्यं वा चिन्तयतो यस्य प्राणा निर्गच्छन्ति सोऽप्याराधको जायते। स चोत्कर्षण तृतीयभवे सिध्यति । मुहुर्मुहर्मनसि चिन्तनीयमहं साधुरस्मि,