________________
, समतासागरचरितम् -00-0 00- ८५ ग्रन्थयः प्रादुरभवन् । चलतोत्तिष्ठता निषीदताऽस्थीन्यक्षुभ्नन्। पादपिण्डिकेऽपि शुष्केऽभवताम् । शरीरे लेशमात्रमपि सामर्थ्य शेषं नासीत् । आत्मबलेनैव त उत्थाननिषीदनान्यकुर्वन्, न तु देहबलेन । ईदृग्स्थितावपि दीर्घतपश्चर्याभिलाषस्तैः कृतः । इदं कथं शक्यमभवत् । इदं मनोबलं कुत आविरभवत् ? शरीरे तु रक्तबिन्दवोऽपि नाऽऽसन् ।। तहीयदतिकृशशरीर इयदुगमनोबलं कुत आगतम् न किमपि ! ज्ञायते। अहो ! ज्ञातं मया रहस्यम् । तेषां मनोवाग्देहाः । स्वतन्त्राः नाऽऽसन् । तैस्ते तु गुरुचरणयोः समर्पिताः ।। ततो गुरुकृपावृष्टिः सततं तेष्वभवत् । ईदृग्भयङ्करस्थितावपि तैः प्रदर्शितो गुरुसमर्पितभावः पञ्चमारकपर्यन्तं यावद्भव्यजीवानामालम्बनभूतं भविष्यति । नूनमधुना ज्ञातं मया यद्- गुरुसमर्पितभावद्वारा तैरियबलं लब्धम् । ते धन्या आसन् । तेषां समर्पितभावोऽप्यद्वितीय आसीत् । तेषां जीवनमपि धन्यमासीत् । कृतं प्रसङ्गेन ।
पिण्डवाडाप्रवेशानन्तरमेव तैर्दीर्घतपश्चर्याभिलाषेणोपवासाः प्रारब्धाः । तेषां भावनात्युत्तमाऽऽसीत्, कदाचित्तेऽनशनमपि कर्तुमैच्छन् । किन्तु गुरुदेवाः सावधाना आसन्। ततस्ते तेभ्यः प्रतिदिनं एकैकोपवासप्रत्याख्यानं दत्तवन्तस्तेऽपि प्रमोदभरेण गुरुदेवेच्छां स्व्यकुर्वन् । न केवलं तदैव किन्तु स्वीजवने कदापि तैर्गुरुदेवेच्छा नाऽवगणिता। प्रथमोपवासः सुखशातापूर्वकं पूर्णोऽभवत् । तेन द्वितीयदिनेऽपि तैरुपवासः प्रत्याख्यातः । किन्तु तदानीं मस्तके शूलमुद
+ ८६ 0000-- समतासागरचरितम् ।
भवत्, वेदनाऽसह्या जाता, मस्तकं पुस्फुटिषुरिवाऽभवत् । सम्पूर्णा रात्री पीडायां व्यतीता । तथापि ते मनस्यहन्नामैवाऽरटन्। अर्हत्स्मरणमर्हज्जापं चाकुर्वन् । क्षणमात्रमपि ते नाऽस्वपन् । सम्पूर्णा रात्री तीव्रवेदनायामतिक्रान्ता । ततः समयज्ञैर्गुरुदेवैस्तृतीयदिने ते पारणं कारिताः । तैरपि तेषामिच्छामानन्देन स्वीकृत्य पारणं कृतम् ।
पूज्यपादसिद्धान्तमहोदधिः शताधिकसाधुजीवनशिल्पिसर्वाधिकसंख्यश्रमणसार्थाधिपत्याचार्यभगवत्श्रीमद्विजयप्रेमसूरीश्वराणां पिण्डवाडा जन्मभूमिरासीत्ततः पिण्डवाडासङ्घः स्वं गौरवशालिनं मतवान् । पूज्यानां चातुर्मासकारणस्य तस्य संकल्पः पूर्णोऽभवत्ततः सोऽतीवोल्लासवानासीत् । पंन्यासभानुविजयानां वैराग्यरसभृतप्रवचनैः श्रीसङ्घोऽतीव भावितः। तेषां प्रवचनानां सारं तु तपस्त्यागावास्ताम् । पुण्यशालिभिर्होटलत्यागः कृतः। जिनपूजा-रात्रीभोजनत्याग-नमस्कारसहितप्रत्याख्यान-ब्रह्मचर्यपालन-सचित्तत्याग-नवलक्षनमस्कारजापादिविविधाभिग्रहास्तैगृहीताः। अनुष्ठानान्यपि सुष्ठु सम्पन्नानि । प्रकटप्रभावशालि-श्रीशवेश्वरपार्थनाथप्रभ्वष्टमतपोऽपि प्रभूतजनैरनुष्ठितः। जाप-भक्तिभ्यां वातावरणं सुवासितं जातम् । युवभिः वर्धमानतपः प्रारब्धम् । इतः प्रेमसूरीश्वरनिश्रायां साधवोऽपि स्वाध्याय-तपो-जापवैयावृत्त्यादिसाधनाः सुष्ठ कृतवन्तः। श्रावक-श्राविकाभिः गुरुकुलवासदर्शनं लब्धम् । बाल-वृद्ध-ग्लान-तपस्वि-प्रभावकज्ञान्यादिविविधवैशिष्ट्यशालिसाधुदर्शनं श्रीसङ्घस्य दर्शनशुद्धौ निमित्तीभूतम् ।