________________
समतासागरचरितम् -00-0
0
- ७७
4 ७८
0
0
00- समतासागरचरितम् ।
पदाश्विनदिनानि त्वतीवोष्णानि सन्ति । तादृशतीव्रधर्मण्यपि : तेषामुपवासवृद्धिरेवाभवत् । प्रतिदिनमेकैकमुपवासं ते प्रत्याख्यातवन्तः ।
शास्त्रपठितचतुर्थारकमुनिदृष्टान्तास्तदा प्रत्यक्षीभूताः। तत्कालसर्वभयङ्करव्याधिना केन्सरेण ते पीडिता आसन्, ! सोऽपि न प्रारम्भदशायां किन्तु समग्रशरीरे प्रसृत आसीत्। मस्तकवेदना तु तीव्राऽऽसीत्, वागपि रुद्धाऽऽसीत्, भोजन-: पानेऽपि ते कर्तुं नाशक्नुवन्, केवलमुदरयोजितनलिकया । द्रवपदार्थान्नगृह्णन् । ईदृगवस्थायामपि तेषामुपवासवृद्धिरेवाऽभवत् । उपवासदिनेऽपि सम्पूर्ण दिनं यावत् त आगमानपठन्, मुनिभ्यो लिखित्वा प्रेरणां दत्तवन्तः, गृहस्थानपि तथैव प्रेरणामकुर्वन्, बहिमिश्रावकांश्च पत्रैरबोधयन् । त एतत्सर्वं कर्तुं कथं शक्ता अभवन् ? किं तेषां मनोऽयोनिर्मितमासीत् ? किमपि न ज्ञायते । तदोपवासादिनेष्वपि तेषां मनःस्थितिं प्रकटयत् तैः स्वहस्तलिखितमधोदर्शितपत्रं नेत्रातिथीक्रियताम् ।
पञ्चविंशतितमोपवासे तैलिखितं पत्रम्
"पूज्यकृपयाऽद्य मया पञ्चविंशतितमोपवासः प्रत्याख्यातः । अहं सुखशातायां वर्ते । शारीरिकस्वस्थताऽपि शोभनाऽस्ति । अग्र उपवासवर्धनस्य मम भावनाऽस्ति । तपसा द्वौ प्रत्यक्षलाभावनुभूतौ मया-मस्तकपीडाऽतीवाल्पाऽभवत् मुखाच्च जलपानं शक्यमभवत् । नूनं तपः-। प्रभावोऽचिन्त्यः ।"
अग्र उपवासवर्धनेन तैर्मासक्षपणं पूर्णीकृतम् । ततो गुर्वाज्ञया पारणं कृतम् ।
मासक्षपणपारणद्वितीयदिने लिखितं पत्रम्
"पूज्यकृपया ह्यो मासक्षपणपारणं सुखशातापूर्वक जातम् । पारणानन्तरं स्वास्थ्यं सुचार्वस्ति । मस्तकपीडाऽल्पा सञ्जाताऽस्ति । यद्यपि सा सम्पूर्णतया न नष्टा किन्तु सह्याऽस्ति । अन्ननलिकया द्रवपदार्थान्ग्रहीतुं शक्नोमि। एताभ्यां : लाभाभ्यामूर्ध्वमाभ्यन्तरिकः कर्मनिर्जरालाभस्तु जात एव ।"
तेषां चिन्तां कुर्वतः श्रावकस्योपरि लिखितं प्रत्युत्तरपत्रम्
"जगति न केवलं वयमेवाशातया पीडिताः स्म, किन्त्वनेकेऽशातोदयपीडिताः सन्ति । अस्मत्पीडाया अधिकां । पीडामनुभवन्तो जीवाश्चराचरे विद्यमानाः सन्ति। भाग्यशालिन् ! दृष्टिं विस्तीणां कुरु । अनेके जीवा अस्मदधिकं पीडिताः सन्ति, ततस्ते वराका दुर्ध्यानेनाऽशातां सहन्ते। फलतः नूत्नान्यशुभकर्माणि बध्नन्ति । तदाऽस्माकमशाता तु तेभ्योऽल्पाऽस्ति । सद्गुरुसमागम-साहाय्य-कृपा-विवेकदृष्टि-रत्नत्रयीसाधनादिकानुकुलसामग्यं लब्धम् । यदीदृगवस्थायामनन्तोपकारिगुरुदेवा नामीलिष्यंस्तदाऽयमात्मा स्वस्वरुपं विस्मृत्य भवमभ्रमिष्यत् । यद्यप्यशाताऽऽगता तथापि शुभसंयोगे साऽऽगता । उदिताशातामन्यथाकर्तुं वयमसमर्थाः स्म किन्तु सकामनिर्जरया सह सहनशीलतागुणो विकसितव्य इत्येतदवसरेऽस्माकं कर्त्तव्यमस्ति ।"
--
-