________________
समतासागरचरितम् -
-
motor- ७५०
4
७६
0-
00-
00- समतासागरचरितम् ।
वाडानगरे पूज्यानां प्रवेशेन सह स उपद्रवो नष्टः । सर्वगृहेषु शान्तिर्जाता। उपद्रवस्य सम्पूर्ण निवारणं जातम्।
प्रतिष्ठानन्तरं पूज्याः प्रेमसूरीश्वराः विशालपरिवारेण सह राणकपुरादिपञ्चतीर्थवन्दनार्थं गताः । पद्मविजयाः कतिचिदिनानि पिण्डवाडामध्ये स्थित्वा सिरोहीनगरं प्राप्ताः। तत्र भव्यजिनमन्दिरदर्शनेन सर्वेषां हृदयान्युल्लसितानि । पूज्याः पञ्चतीर्थयात्रां कृत्वा शिवगञ्ज प्रति विहृताः। शिवगञ्ज पूज्यैः सह पद्मविजयैश्चातुर्मासप्रवेशः कृतः ।
प्रतिदिनं तेषां स्वास्थ्यमचारुतरमभवत्। किन्तु प्रब-। लायुःकर्मणा केन्सरव्याधौ प्रसृतेऽपि ते जीवन्त आसन् । मुखे पेरेलीसीसरोगचिह्नान्यवर्धन्त । यदा वमनेन सह काशनमभवत्तदा द्रष्टुरपि त्रासदायकं दृश्यमाविरभवत् । दक्षिणनेत्रं । शनैः शनैः निमीलितं, कर्णयोश्च बधिरत्वमवर्धत। मस्तके सततं वेदनाऽभवत् । ईदृग्स्थितावपि तेषां समाधिः सहनशीलता चाद्भूतेऽभवताम् । यथा यथा रोगोपद्रववृद्धिर्भवति तथा तथा तेषां समाधिवृद्धिरप्यभवत् । तैः कर्मसैन्ये कर्मराजं प्रति घोषितं- "भवता सम्पूर्णशक्त्या यथेच्छं प्रहाराः क्रियतां । मत्सकाशे तु गुरुकृपया समाधिसन्नाहमस्ति । ततस्तव प्रहारैर्ममेषदपि क्षतिर्न भविष्यति। प्रत्युताग्निसुवर्णन्यायेन ममात्मविशुद्धिर्वत्य॑त्येव । हानिस्तु त्वत्पक्ष एव । मदात्मगृहादधुना भवता निर्गन्तव्यमेव ।"
शिवगञ्ज खीमचन्दजीडोक्टरः सदैव पद्मविजयानां सेवायां तत्पर आसीत् । तीव्रवेदनायां सः पीडाशम
नोपायानदर्शयत् । योग्यपरिचर्यादर्शनेन तेन पुण्यानुबन्धिपुण्यमुपार्जितम् ।
एतावद्व्याधिपीडायामपि शिवगञ्जचातुर्मासमध्ये दिनकाले पद्मविजयाः प्रज्ञापनासूत्रमपठन्रात्रौ च जापध्यानयोलीना अभवन् । दिवससमये लिखित्वा बालमुनीन् प्रेरयन्।
इत्थं तेषां दिनान्याराधनायां व्यतीतानि । पंन्यासभानुविजयानां प्रवचनादिभिः सङ्घमध्ये जागृतिरागता । मुनिगणोऽपि सुरेन्द्रनगरवदत्र ज्ञानध्यानस्वाध्यायादिलीनोऽभवत् । पं.भानुविजया मुनिभ्यो वाचनां दत्तवन्तः । पूज्या : अपि यतिभ्य आगमवाचनामयच्छन् । वातावरणमाराधनामयं । सञ्जातम् । इत्थं दिनेषु गच्छत्सु पर्युषणपर्वाऽऽगतम् ।
सुरेन्द्रनगरे तैश्चतुर्विशत्युपवासाः कृताः, पिण्डवाडानगरे चतुर्दशोपवासाः कृताः, तथापि ते तृप्ता नाभवन् । तेषां तपःचिकीर्षाऽधिकाधिकमवर्धत । पर्युषणपर्वप्रथमदिनादेवोभयगुरुदेवाज्ञया तैरुपवासाः प्रारब्धाः । प्रतिदिनमेकैकोपवासप्रत्याख्यानेन तेऽग्रेऽचलन्। संवत्सरिदिने तैरष्टम उपवासः कृतः । तदा प्रवचनसदसि गुरुदेवमुखात् कल्पसूत्रं (बारसासूत्र) तेऽशृण्वन् । सन्ध्यायां प्रतिक्रमणमपि तैरप्रमादभावेन कृतम् । भाद्रपदशुक्लपञ्चम्युदिता । सर्वे विकल्पितवन्तो यत्- 'अद्य पद्मविजया अष्टोपवासपारणं करिष्यन्ति ।' किन्तु प्रबलमनःशक्तिस्वामिभिस्तैः सर्वेषां विकल्पा वितथीकृताः। भाद्रपदशुक्लपञ्चमीदिने तैर्नवम उपवासः प्रत्याख्यातः। मरुभूमिस्तूष्णभूमिः। तत्रापि भाद्र
49