________________
में समतासागरचरितम् +0mentagon-६७
६८
dreams
समतासागरचरितम्
तैः क्षमा प्रदत्ता । ततः पद्मविजयैः स्वगुरुदेवपूज्यपंन्यासभानुविजयानां सन्मुखमञ्जलीं कृत्वा प्रकाशितं'भवद्भिरनन्तोपकारा वर्षिताः । अहं तु प्रत्युपकारासमर्थोऽस्मि । कथमहमनृणीभविष्यामि ? अविनयापराधानां क्षमा याचे ।' पंन्यासभानुविजयैरप्यश्रुपूर्णाक्षिभ्यां वात्सल्यपूर्णहस्तस्तेषां मस्तके संस्थाप्य क्षमा प्रदत्ता । तेषामक्षिभ्यामप्यश्रूण्यपतन् । वातावरणमतिशयेन गम्भीरं सञ्जातम्। तत्रोपस्थितसर्वेषामक्षिभ्योऽश्रूण्यपतन्। समस्तचतुर्विधसङ्घाक्षीण्यश्रुपूर्णानि सञ्जातानि । सर्वेऽतिविस्मयेन तदन्तिमाराधनां दृष्टवन्तः । केनाऽपि कल्पितुं न शक्यते यत्-: 'स्तोकक्षणानन्तरमेकद्विमुहूर्त्तानन्तरं वा ये स्वर्गातिथ्यं धारयिष्यन्ति ते सकलां वेदनां विस्मृत्येत्थं स्वस्थतया मृत्युनाऽयुध्यन् ।' तथापि तत्तु सर्वेषां प्रत्यक्षमासीत् । शासनस्यैतामद्भूतविधिं प्रति सर्वे नतमस्तकाः सञ्जाताः ।
साधकात्मन एतत्साधनां प्रति सर्वेषां हृदयान्यनुमोदनापूर्णानि सञ्जातानि । ततस्ते प्रत्येकमुनिवराग्रेऽङ्गुली प्रदाञ्जलिं कृत्वा क्षमापनामकुर्वन् । त्रिपञ्चाशन्मुनिभिः सह क्षमापनाया अनुपमः प्रसङ्गो घटितः। ततस्तैः साध्वीभिः श्रावकश्राविकासङ्घन च सह क्षमापना कृता । ततस्तैर-1 न्यमुनिभिरन्यस्थानस्थमुनिभ्यः क्षमापनापत्राणि लेखितानि ।
तदा पूज्यप्रेमसूरीश्वरैरनुमोदनानिमित्तं तेभ्यः सपादलक्षस्वाध्यायसुकृतदानं घोषितम् । अन्यैर्मुनिभिरपि विशिष्टसुकृतदानानि घोषितानि । सुरेन्द्रनगरसङ्घसेक्रेटरी
बापालालश्राद्धेनाऽपि जिनभक्तिमहोत्सवपद्मविजयशेषौल्याचामाम्लकारणे घोषिते । इत्थं क्षमापनासुकृतानुमोदनयोराराधने जाते ।
ततः पद्मविजयानां हृदये पञ्चमहाव्रतोचरणस्य भावना प्रादुर्भता । झटित्या भगवत्प्रतिमाऽऽनायिता तत्समक्षं च पंन्यासकान्तिविजयैनमस्कारमन्त्रादिमङ्गलं कृत्वा नन्दि-* चैत्यवन्दने कारयित्वा पञ्चमहाव्रतालापकास्तान्नुचारिताः ।। इत्थमाराधनायज्ञः प्रारब्धः ।
इतः पंन्यासभानुविजयाः चिन्तितवन्तः, "भावोपचाराः क्रियमाणाः सन्ति । किन्त्वस्माभिर्द्रव्योपचारा अपि प्रयोक्तव्या एव । अत्रत्यडोक्टरैः तेषां प्रगुणीभवनं निषिद्धं, किन्तु केनचिन्निष्णातडोक्टरेण चिकित्सां कारयित्वा तस्योपचाराः कर्त्तव्या अस्माभिः ।' तैः सङ्घश्राद्धा इदं ज्ञापिताः । श्राद्धैस्तूर्ण राजकोटनगरे पटणीचिमनलालश्राद्धेन सह दूरभाषेण सम्भाषणं कृतं यत्- 'कश्चिन्निष्णातडोक्टरोऽत्रानेतव्यः' । इतः पद्मविजयानां समीपे नमस्कारमन्त्रजापध्वनिः प्रारब्धः । सर्वेषां हृदयानि चिन्तातुराणि सञ्जातानि। तदा चतुःवादने चिमनलालश्राद्धः डोक्टरदस्तूरेण सह राजकोटनगरादागतः ।। डोक्टरदस्तूरेण झटित्या पद्मविजयानां चिकित्सा कृता । यन्त्रद्वाराऽन्नलिकाया आन्तरविभागश्चिकित्सतः। द्वित्रिकृत्वः सुष्ठ चिकित्सितम्। तत इदं ज्ञातं तैर्यत्- 'अन्ननलिकायां छिद्रं सञ्जातम्। ततो यत्किञ्चित्खाद्यते वा पीयते वा तत्सर्वं प्राणापाननलिकायां प्रविशति । परिणामतः काशनानि