________________
समतासागरचरितम् -
00-
00-
00-
६३
*
६४
+000-
00-
00- समतासागरचरितम् ।
तादृग्साधनां कर्तुमशक्नुवन् ? तेषां जीवनं धन्यम् ! तेषां पितरौ धन्यौ ! तेषां गुरुदेवप्रगुरुदेवौ धन्यौ !
घोरोपसर्गः चतुर्विशत्युपवासानन्तरं प्रेमसूरीश्वरैः सूचितं यत्पारणकरणमावश्यकमासीत्। ततो विनीतसेवकैः द्रवेण पारणं कृतम् । पारणानन्तरं तृतीयदिने शरीरे तीव्रो दाहः प्रादुरभवत्। प्रभूतोपचारकरणेऽपि सो नोपाशाम्यत्। सम्पूर्णा रात्रीं ते नास्वपन्, किन्तु नवकारजापे ते तन्मया अभवन् । प्रत्यूषसि चतुर्वादने दाहोऽशाम्यत्, तेनाल्पं कालं ते निद्रामलभन्त । किन्तु तदाऽन्यैव पीडा प्रादुरभवत् । अन्ननलिका शनैः सङ्कुचिताऽभवत् । सप्तमदिने तु सा सम्पूर्णतया सङ्कुचिताऽभवत् । अन्ननलिकया ते जलबिन्दुमात्रमपि गिलितुं : नाशक्नुवन् । भोजनमपि रुद्धम् । द्वितीयदिने प्रभाते वान्तिरभवत् । तत्र विकृतं रुधिरं निरगच्छत् । तेषामस्वास्थ्य वर्धमानमभवत् । डोक्टरबुचः आकारितः । तेन चिकित्सा कृता । कथितं च तेन- 'एतेऽल्पसमयातिथयः सन्ति ।' ततश्च तेन तेषां जीवनाशा त्यक्ता। तेषां शरीरे तीव्र धर्माऽऽसीत्। ततस्तेषामासनमपवरकाबहिःखण्ड आनीतम्। एकतः सौराष्ट्रभूमावश्विनमासस्य तीव्रतरस्ताप आसीत् शरीरे च गृहीतकिरणधर्माऽऽसीदन्यतश्चान्ननलिका रुद्धा । यदा जलबिन्दुमात्रमपि ते ग्रहितुं नाशक्नुवंस्तदा भोजनस्य तु का वार्ता ? तीव्रधर्मणि यदि मुहूर्तमपि जलं न मिलितं तदाऽस्माकं का दशा भवेत्? तदा तु नवतिमुहूर्त्तानन्तरमपि तै व
भुक्तं न वा पीतम्। क्षत्तृषे तु प्रचण्ड उदिते । यद्यपि क्षुधा तु सोढुं शक्यते किन्त्वाश्विनतीव्रधर्मणि तृषा तु कथं सोढुं शक्या? नूनमयं जीवो वृथाऽभिमानं करोति । कर्मबन्धकारणसावद्यकर्मभ्यो विरतो न भवति, तेष्वेव मग्नो भवति। किन्तु स इदं न जानाति यत्तत्कर्मोदयसमय ईदृविषमस्थितेरुत्पत्तौ तस्य काऽवस्था भविष्यति ? सः कथं तद्विपाकान्सहिष्यति । 'हसता सता बद्धानि कर्माणि रुदताऽपि त्यक्तुं न शक्यन्ते।' तैर्महापुरुषैरस्मिञ्जन्मनि विशिष्टकर्मबन्धनिमित्तमेकमपि कार्य नासेवितम्। यैः सम्पूर्ण जीवनं । गुरुसमर्पितभावेन कर्मनिर्जराकार्याण्येव कृतानि तेषां जीवनेऽपि यदि तादृशी पीडा पूर्वकर्मोदयेनाऽऽगता तर्हि ये सतत-- मशुभभावकार्येषु रक्ताः सन्ति तेषां तु का वार्ता ? इदं तु . तेषां साक्षादृष्टप्रसङ्गलिखनं क्रियते। उभौ गुरुदेवौ व्यथितावभवताम्। प्रेमसूरीश्वराः स्वयं जलपूर्णतूलं तेषां जिह्वाऽग्रेऽस्थापयन् किन्त्विदं किं जातम् ? दशपञ्चदशजलबिन्दुपानानन्तरं तीवं काशनं प्रारब्धम् । उदरमध्ये बिन्दुशः प्राप्तं जलमेकवारेण बहिर्निरगच्छत्। इत्थं त्रिचतुःकृत्वः सञ्जातम् । ततः स उपायोऽपि निष्फलोऽभवत् । कोऽपि किञ्चिदपि न चेतयति। ईदगवस्थायामपि पद्मविजयाः प्रशान्ता आसन् । तैः स्वीयमन्तिमसमयं ज्ञातम् । आराधनार्थं तेषां हृदयमुत्कण्ठितं जातम् । प्रेमसूरीश्वरा अपि गीतार्था आसन्। तैरपि चिन्तितं यत् पद्मविजयानन्तिमाराधना कारणीया ।। पूज्यप्रेमसूरीश्वरमंगलविजयमेरुविजयपंन्यासकान्तिविजय