________________
समतासागरचरितम् -
-famorya- ६१
६२
-00-
00-
00- समतासागरचरितम् ।
ज्ञानताकुसंस्कारनिमग्ना जीवा इदं कथं जानीयुः ? फलस्वरूपेण सम्पूर्ण विश्वमधिकाधिकं दुःखग यामवतरति ।। पद्मविजयैरुपवासैः विंशतिस्थानकाराधना प्रारब्धा । उपवासैः सह ते क्षमाश्रमणादिकाः क्रिया अप्यकुर्वन् । अनन्तपञ्चपरमेष्ठिपटं सन्मुखं संस्थाप्य समवसरणविराजमानार्हत्परमात्मानमेकाग्रचित्तेनाऽध्यायन् । पञ्चपरमेष्ठिनोऽष्टप्रातिहार्यसहिता अप्यध्यायन् । प्रतिदिनं मध्याह्ने द्विघण्टा यावदित्थं ते जापं ध्यानं चाकुर्वन् । स्वस्थतायां सत्यां मुनिभ्यः । स्वाध्यायसंयमप्रेरणा अपि दत्तवन्तः, श्रावकांश्चापि तत्त्वामृतं । पायितवन्तः । इदं सर्वं ते लिखित्वैवाऽकृर्वन्यतस्तदा ते भाषितुमसमर्था आसन्।
उपवासवृद्ध्या सह तेषां पीडाहानिरभवत् । उपवासकरणेन तैः शारीरिकस्वस्थता मानसिकप्रसन्नता च लब्धा । तेषामाध्यात्मिकानन्दस्य वृद्धिरप्यभवत् । ततस्तैरुपवासवृद्धिः कृता । प्रतिदिनेमेकैकोपवासप्रत्याख्यानं तेऽकुर्वन् । जनैरनुमितं यत्तेऽष्टोपवासनान्तरं पारणं करिष्यन्ति । किन्तु तेषामनुमितिर्वितथाऽभवत् । पद्मविजयैरुपवासा वर्धिताः । सर्वश्रेषः प्रवादः प्रसृतो यत्पद्मविजयैरनशनं स्वीकृतम् । इयं वार्ता मुम्बापुरीं प्राप्नोत् । भक्तजनैः पूज्यप्रेमसूरीश्वराणामुपरि पत्रवर्षा कृता 'पद्मविजयानामुपवासपारणं कारयत' ।
उपवासदिने पद्मविजयानां मनोऽवस्थां प्रकटयत्तैः स्वहस्तेन श्रावकेभ्यो लिखितमधोदर्शितं पत्रमतीव मननीयमस्ति ।
___ सुश्रावकेभ्यो धर्मलाभः। उपवासाः स्वस्थतया भवन्ति । अद्यैकविंशतितमोपवासोऽस्ति । अर्हत्पदसाधना समाप्ता, सिद्धपदसाधना प्रारब्धा। रोगनिवारणकृत उपवासोपचारः सफलोऽभवत् । तत्फलानि तु चिरादेव दृश्यन्ते । अधुना मम पारणार्थमाग्रह मा कुरुतेति प्रार्थये । अधुना ममोल्लासः शक्तिः स्वास्थ्यं च शोभनानि । सन्ति । अत एवोपवासवर्धनस्य मम भावनाऽस्ति।
यूयं सर्वे धर्मप्रेमिबुद्धिशालिमहानुभावाः स्थ । युष्माकं हृदयमनुमोदनीयेन धर्मादरेण पूर्णमस्ति । गतकतिचिवर्षपरिचयेन यूयं सर्वे मां प्रति भक्तिभावं धारयथ । ततो भक्तिभावेन मम पारणार्थं युष्माभिः कृता विज्ञप्तियौग्यैव । तथापि पत्रलिखितवस्तुतत्त्वमपि मनस्यवधारणीयम् ।।
एतत्पुस्तकपाठकानपि प्रार्थये- 'ईषद्विचिन्तयन्तां भवन्तः। यदाऽन्ननलिकया द्रवमपि कृच्छ्रेणैव पातुमशक्नुवंस्ते, यदा ते भषितुमप्यसमर्था अभवन्, यदा मस्तके तीव्रा : पीडाऽभवत्, यदा काशनवमनाक्ष्याकर्षणाद्यसह्यपीडा अभवंस्तदाऽपि सामान्यजनदुर्लभसमाधिसमताधर्मध्यानानां ते स्वामिन आसन, सामान्यजनसुलभरौद्रध्यानस्यावकाशमपि ते न दत्तवन्तः । अतीवोपशमेन ते पीडाः सोढवन्तः, उपवासादितपांसि कृतवन्तः, पठन-जाप-ध्यानादिक्रिया अप्युपयोगपूर्वकं कृतवन्तः, अन्यमुमुक्षूनप्याराधनायां यथायोग्य प्रेरितवन्तः। इदं सर्वं ते कथं कर्तुमशक्नुवन्? किं विशिष्टं बलं तेषां समीपे आसीत् यस्य प्रभावेण इयत्पीडामध्येऽपि
+
+ 4
4
-10