________________
समतासागरचरितम्
५९
शास्त्रवर्णितचतुर्थारकगुरुकुलवासदर्शनं पञ्चमारके
सञ्जातम् ।
इतः पंन्यासपद्मविजया अपि स्वीयसाधनामग्ना आसन् । सुरेन्द्रनगरचातुर्मासे ते कर्मशत्रुभिर्वीरतयाऽयुध्यन् । केन्सरविविधपीडामध्येऽपि दिनकाले ते स्वयमागमानपठन् । पठनेन सह जापध्यानसाधनयाऽपि ते कर्मनिर्जरां साधतिवन्तः । तदा तेषां वागरुध्यत तेषां वचनानि कोऽपि श्रोतुं नाशक्नोत् । तथापि बालमुनीन्प्रेरणावचनानि लिखित्वाऽऽराधनायां सोत्साहानकरोत् । न केवलमेतत्प्रतिदिनं प्रभाते ते तान्संस्कृतश्लोकान्कंठस्थान्नकारयन् । दशश्लोककंठस्थीकरणानन्तरमेव नमस्कारसहितप्रत्यख्यानं पारयितव्यमिति तैर्बालमुनयः संदिष्टा आसन् । बालमुनिभिरपि स्वेच्छया तेषां सूचनं स्वीकृतम् । इत्थं पद्मविजयाः शोभनां साधनां कुर्वन्त आसन् ।
इतः प्रतिदिनं तेषां व्याधिरवर्धत । सर्व उपचारा निष्फला अभवन्। तेषामन्ननलिका सङ्कुचिताऽभवत् । केन्सरव्याधिः प्रासरत् । मस्तकपीडा - वमन - काशन-दक्षिणाङ्गाकर्षणादिकाः पीडास्ते समतयाऽसहन् । दक्षिणनासिकया श्वासोच्छ्वासा कृच्छ्रेणैवाऽकुर्वन् । दक्षिणकर्णेन ते सुष्ठु श्रोतुं नाशक्नुवन् । तेषां शरीरस्य दक्षिणविभागः पेरेलीसीसरोगेण ग्रस्तोऽभवत् । ततस्ते चन्द्रिकामपि गिलितुं नाशक्नुवन् । केवलं द्रवपदार्थानेव ते भोक्तुं शक्तिमन्त आसन् । ईदृक्स्थितावपि तेषां साधना हीयमाना नाऽभवत्किन्तु वर्धमानै
* समतासागरचरितम् वाऽऽसीत् । पीडासहनेन सह ते नित्यक्रियाः स्वपरहितप्रवृत्तीश्च पूर्वमिवैवाऽकुर्वन् । एतैर्महायोगिपुरुषैस्तदाऽऽध्यात्मिकोपकारकरणभावना भाविता । ईदृगासीत्तेषां माहात्म्यम् । कश्चित्सामान्यमनुष्य ईद्दक्स्थितावधिकाधिकानपवादान्सेवेत,
६०
तदैतैर्महापुरुषैरधिकाधिकमुत्सर्गमार्गारोहणमनोरथाः कृताः । पर्युषणपर्वाऽगतम् । व्याधिपीडया प्रथमसप्तदिनानि तैर्नमस्कारसहित प्रत्याख्यानमेव कृतम् । संवत्सरिदिन उपवासकरणभावना तैः पूज्यानामग्रे प्रदर्शिता । पूज्या अपि ज्ञातवन्तो यदुपवास एव वास्तविकमौषधमासीत् । ततस्तैरपि तेभ्य उपवासप्रत्याख्यानं दत्तम् । तद्दिन उपवासकरणेऽपि पद्मविजयैः स्वस्थतापूर्वकं कल्पसूत्रं (बारसासूत्रं ) श्रुतं प्रतिक्रमणं च कृतम् । श्रीसङ्घेनापि तद्दिने सोत्साहमाराधना कृता ।
भाद्रपद शुक्लपञ्चमीप्रभाते सर्वे पारणकरणकारणोद्यता आसन् । मुनिष्वपि अष्टदशाधिकोपवासतपस्विनः पारणोद्यता आसन् । परन्त्वितः किं सञ्जातम्, पद्मविजयैः पूज्या विज्ञप्ताः 'ह्य उपवासः सुखशातापूर्वकं जातः । मम स्वास्थ्यमपि समीचिनमस्ति । यदि भवतामिच्छा स्यात्तदाऽद्याप्युपवासप्रत्याख्यानं ददतु ।' पूज्यैरपि एतद्विनीतविनेयान्तरभावना समर्थिता । न केवलं तद्दिने एव तैरुपवासः प्रत्याख्यातः किन्तु तदनन्तरमपि प्रतिदिनं त उपवासमेव प्रत्याख्यातवन्तः । अष्टोपवासनन्तरं तु तेषां मस्तकपीडाऽपि तिरोभूता । इदं तु जिनशासनमाहात्म्यं यत्तद्दर्शितोपवासादिसाधना बाह्यान्तरोभयरीत्या लाभकारिण्यो भवन्ति । किन्त्वनाद्य