________________
समतासागरचरितम्
वेदनीयकर्माणि सोढ्वा प्रभूताऽशुभकर्मनिर्जरा कृता । तेषां समतां दृष्ट्वा तत्रस्थपंन्यासहंससागरगणिनोऽप्यतीव चकिताः सञ्जाताः । तैरप्यन्तःकरणपूर्वकमनुमोदना कृता । वढवाणसङ्घोऽपि तेषां सेवायां वपुषा मनसा वित्तेन चालगत् । श्रीसङ्घोऽतीव पुण्यशाल्यासीद्यत्तादृशमहापुरुषसेवावसरं लब्धवान् । श्रीसङ्घेन सम्पूर्णोल्लासेन सर्वशक्त्या च सेवां कृत्वा सोऽवसरः सफलीकृतः।
५७
सुरेन्द्रनगरमध्ये साधनामयं चातुर्मासम् । शुभमुहूर्ते पूज्यप्रेमसूरीश्वराणां सुरेन्द्रनगरे चातुर्मासप्रवेशः सञ्जातः । श्रीसङ्घे सर्वे सोल्लासाः सञ्जाताः । पूज्यैः सह तदा मंगलविजयमेरुविजयपंन्यासकान्ति
विजयपंन्यासमलयविजयपंन्यासभानुविजयपंन्यासपद्मविजयादिचतुष्पञ्चाशन्मुनय आसन् । तान्दृष्ट्वा सर्वे हर्ष - भरेणानृत्यन्यथा मेघं दृष्ट्वा मयुरो नृत्यति । सुरेन्द्रनगरे विविधसमुदायवर्त्तिप्रभूतसाधुसध्व्यो विराजमाना आसन् । श्रीसङ्घोऽपि पूज्यानां सेवायां दत्तावधान आसीत् । श्राद्धवर्यनारणदासपुत्रचम्पकलाल श्राद्धेन श्राद्धवर्यमाणेकलालपुत्रधारशीभाइ श्राद्धेन च चातुर्मासे सर्वसाधुसाध्वीवैयावृत्त्यलाभः श्रीसङ्घ विज्ञप्य गृहीतः । प्रतिदिनं प्रवचनधाराऽवर्षत् । श्रावकसङ्घः सोल्लासं चातुर्मासाराधनायां युक्तवान् ।
इतः पूज्यनिश्रायां मुनीनामपि साधनायज्ञः प्रारब्धः। मुनयः स्वाध्याय-संयम- तपो वैयावृत्त्यादियोगेषु स्वीयं वीर्य
*** समतासागरचरितम्
प्रयुञ्जन्ति । पञ्चमारकेऽपि श्रीसङ्घः चतुर्थारकगुरुकुलवासदर्शनं लब्धवान् । श्रीसङ्घेन बालवृद्धग्लानतपस्विज्ञान्यादिमुनीनां दर्शनेन स्वीयं जन्म सफलीकृतम् । स्वाध्यायः पूज्यानामतीव प्रिय आसीत् । तेन सर्वे मुनयः संयमेन सह स्वाध्यायेऽपि तल्लीनाः सञ्जाताः । युवान इव वृद्धा अपि प्रातःकालात्प्रभृत्येव पठनपाठनेष्वलगन् । लघुविद्यापीठ इव तदभासत । कतिचित्साधवः पूज्येभ्यः छेदसूत्राणां वाचनामगृह्णन्। कतिचित्साधवः पंन्यासभानुविजयेभ्यः न्याय सिद्धान्तमुक्तावलीमपठन् । कतिचिन्मुनयः कर्मग्रन्थकर्मप्रकृत्यादि पदार्थानामभ्यासमकुर्वन् । कतिचिद्यतयः पंन्यासकान्तिविजयेभ्यः सटीकतत्त्वार्थसूत्रं सटीकपन्नवणासूत्रं चापठन् । केचन व्रतिनः आचाराङ्गाद्यागमानपठन् । केचित्संयमिनः नूतनकर्मसाहित्य सृजन, केचनाल्पपर्यायचारित्रिणः संस्कृतप्राकृतभाषाभ्यासं प्रकरणाभ्यासं चाकुर्वन् । ज्ञानयज्ञ एव तदा प्रारब्धः ।
५८
ज्ञानेन सह तपआराधनाऽपि शोभना प्रारब्धा । बहवो मुनयो वर्धमानतपस ओलेराचामाम्लान्यकुर्वन् । केचन व्रतिनो विंशतिस्थानकोपवासानकुर्वन् । केचिद्यतयोऽन्यानि तपांस्यकुर्वन् । कतिचित्साधव उत्तराध्ययनाचाराङ्गादियोगोद्वहनमकुर्वन् । केचन संयमिनः द्विपञ्चाशदाचामाम्लसम्पादनीयं महानिशीथागाढयोगोद्वहनमकुर्वन् ।
केचिन्मुनयः समुदायस्य बालवृद्धग्लानमुनीनां च वैयावृत्त्ये युक्तवन्तः ।