________________
* समतासागरचरितम्
aftegort- ५५
f५६
amirporayan- समतासागरचरितम् ।
सह सिद्धगिरिं प्रति प्रस्थिताः। इतः कतिचिदिनानि यावद्वैद्यस्यौषधेनेषत्सुचारुता सञ्जाता । किन्तु ततः पश्चादौषधं विपरिणतम् । काशनवमनमस्तकपीडादिष्वसह्या वृद्धिः सञ्जाता । पीडा अवर्धन्त । किन्तु पद्मविजयास्तु गुरुवचनानि भगवत्वचनानि मत्वौषधं नात्यजन्। श्रावकैरप्यौषधं त्यक्तुमाग्रहपूर्वकं विज्ञप्तिः कृता, किन्तु ते कथङ्कारं गुरु-* वचनमुल्लङ्घयेयुः । अन्ततो गत्वौषधविपरीतप्रभावेण तेषां : शरीरे पीडावृद्धिं दृष्ट्वा व्यथिताः सुरेन्द्रनगरश्राद्धा दूरभाषेण भावनगर उभयगुरुदेवानां परमार्थ ज्ञापितवन्तः वैद्यौषधत्यजनस्य डोक्टरौषधग्रहणस्य चाज्ञां याचितवन्तः। पूज्यै-* रप्याज्ञा दत्ता, तत एव पद्मविजयैवैद्यौषधं त्यक्तं, डोक्टरौषधं । च प्रारब्धम्। ईदृश्यासीत्तेषां गुर्वाज्ञापालनदृढता ।
युद्धभूमौ युध्यन्तो भटा द्विषत्सु प्रहरत्स्वपि सेनापत्याज्ञां नावगणयन्ति, तथैव पद्मविजयैरपि स्वसमस्तजीवने कदापि गुरुवचनानि नावगणितानि । गुरुवचनपालनं, गुरुबहुमानं गुरुविनयश्च तेषां जीवनमन्त्रमासीत् । तैः साधुभ्यो दत्तानां प्रेरणानां वाचनानां चैतदेव सारमासीत् । तेषां प्रत्येकरोम्णि प्रत्येकात्मप्रदेशे वा गुरुतत्त्वस्य नादोऽगुञ्जत्।।
पद्मविजयानामस्वास्थ्येन चिन्तिताः पूज्याः सपरिवारा भावनगरात्सुरेन्द्रनगरं प्रति विहृताः । स्तोकैरेव दिनैस्ते सुरेन्द्रनगरं प्राप्ताः । पद्मविजयान्दृष्ट्वा ते चिन्तामुक्ताः सञ्जाताः । समुदायहितभूती चिन्तयद्भिः पूज्यैः स्वविद्वच्छिष्यप्रशिष्यगणिभ्यः पंन्यासपदार्पणस्य निर्णयः कृतः ।।
तत्कृते वैशाखशुक्लैकादशीदिनं निश्चितम् । अन्यैर्नवभिगणिभिः सह पद्मविजया अपि पूज्यैः पंन्यासपद आरोहिताः। श्रीसङ्घनाऽपि पंन्यासपदार्पणप्रसङ्गे शांतिस्नात्रादिभिः सहाष्टाह्निकामहोत्सव आयोजितः। सुरेन्द्रनगरसङ्घस्यात्याग्रहेण पूज्यैस्तत्र चातुर्मासं निश्चितम् । पन्न्यासपदार्पणप्रसङ्ग समाप्य परिवारेण सह पूज्या हलवदनगरं प्रति विहृताः। पूज्यपद्मविज्याः पूज्यभानुविजयाश्च वढवाणनगरे स्थिताः । केन्सरव्याधिर्वर्धमान आसीत् । घर्मापि तीव्रमासीत्। तद्दाहेऽपि तैराराधनैकनिष्ठमनोभिरष्टमतपः कृतः । सुखशातापूर्वकं तपः पूर्णमभवत् । पारणमपि सञ्जातम् । किन्त्वन्यदा रात्रौ पनस्तीव्रा मस्तकपीडाऽऽविरभवत् । तां पीडां दृष्ट्वा द्रष्टाऽपि भयभीतोऽभवत् । किन्तु पद्मविजया अतीव सहनशीला आसन् । ते लेशमात्रमप्यार्त्तध्यानं नाऽकुर्वन्, केवलमरिहन्तस्मरणमेवाऽकुर्वन् । द्वितीयदिने प्रभाते ईषत्स्वास्थ्यं सञ्जातम् । एकदा मस्तकवेदनाप्रशमनकृते कस्यचिवैद्यस्य सूचनया नासिकयौषधं गृहीतम् । तत्तु विपरिणतम् । ततो मस्तके पीडावृद्धिरभवत्। सर्वे चिन्तातुराः सञ्जाताः। किन्तु पद्मविजयास्तु मेरुरिव धीरा आसन्। तैरेक एव निश्चयः कृतः- कर्मभिः सह युद्धकरणम् । ते कर्मराजानं कथितवन्तः'त्वया सर्वशक्त्या प्रेरणीयं, अहं देवगुरुकृपासन्नाहं बिभर्मि, अहं समतां समाधिं च न लोपिष्यामि ।' प्रत्युत यथा यथा पीडावृद्धिरभवत्तथा तथा पद्मविजयानां समताधीरतावृद्धिरप्यभवत् । पूज्यैरित्थमनेकसनिमित्तकानिमित्तकासाता