________________
* समतासागरचरितम् -
akatrapathrit-
५१
"
५२
generation- समतासागरचरितम् ।
नाऽगतो ज्वलत्प्रश्नाः समाधानरहिता एव स्थिताः । वि.सं. २०१४ वर्ष आगमिष्यतः संवत्सरीभेदस्य मुख्यः प्रश्नोऽपि तथैव (प्रश्नरुपेणैव) स्थितः । उभौ पक्षौ स्वस्वपक्षप्रचारं कर्तुं लग्नौ। श्रीसयोऽतीवोदासीनोऽभवत् । सर्वे चिन्तातुरा आसन्। सर्वेषामेकैव भावनाऽऽसीद्यत्कथमपि सबैक्यं सम्पादनीयम्। संवत्सरीभेदेन पर्युषणपर्वाष्टदिनानामपि भेदो भवति । इदं केन प्रकारेण सोढव्यम् । एकस्मिन्नेव गृहैकस्मिन्नेव च कुटुम्बे द्वयोर्भिन्नयोर्दिनयोः पर्युषणस्याऽऽराधना भविष्यति, कुटुम्बेषु श्रावकेषु च परस्परं सङ्घर्षा भविष्यन्ति । अत्यन्तं व्यथिताः । रतलामस्य केचन युवानः सबैक्यार्थमुपवासान्प्रारब्ध-: वन्तः । वातावरणमपि कलुषितं सञ्जातम् । कतिचिदिनपश्चाधुवान उपवासान्त्याजयित्वा पारणं कारिताः । चातुर्मासं प्रारब्धम् । उभौ पक्षौ स्वस्वमतसत्यत्वसमर्थनाय पत्रिकावर्तमानपत्र-प्रवचनादीनुपयुक्तवन्तः । श्रीसङ्घस्य वातावरणमधिकं कलुषितमभवत्। श्रीसङ्घाग्रेसरा एतत्कृतेऽतीव चिन्ताशीला आसन्किन्तु ते कमप्युपायं न प्राप्नुवन् । तदानीं केनचित्सूचितं "चण्डांशुचण्डुपञ्चाङ्गस्थभाद्रपदशुक्लपञ्चमीक्षयो वर्तमानसंक्लेशनिमित्तमस्ति । जन्मभूमिपञ्चाङ्गे तु : भाद्रपदशुक्लपञ्चमीक्षयो न दर्शितः । यदि जन्मभूमिपञ्चाङ्ग स्वीक्रियते तदाऽस्मिन्वर्षे संवत्सरीपर्वभेदनिवारणं कर्तुं शक्यते।" एतत्कृते प्रयत्नाः प्रारब्धाः । श्रीसङ्घप्रधानश्रावका उभयपक्षाचार्यैः सह मीलिताः । प्रभूतप्रयत्नानन्तरं सर्व आचार्याः सम्मता अभवन् । संवत्सरीपर्वणः कतिचि
दिनपूर्व राजनगरसङ्घमेकत्रीकृत्य सङ्घाग्रणिश्राद्धवर्यलालभाइपुत्रकस्तुरभाइश्राद्धेन तपागच्छीयसर्वाचार्यसम्मत्या 'अतः प्रभृति जन्मभूमिपञ्चाङ्गः स्वीकरणीयः न तु चण्डांशुचण्डुपञ्चाङ्ग' इति घोषणा कृता । तेन तद्वर्षे संवत्सरीपर्वाराधनैकस्मिन्नेव दिनेऽभवत्ततः सर्वे हर्षपूर्णाः सञ्जाताः । किन्तु यदि जन्मभूमिपञ्चाङ्गेऽपि भाद्रपदशुक्लपञ्चमीक्षयवृद्धी : आगमिष्यतस्तदा किं भविष्यति ? एतत्प्रश्ननिर्णयं भविष्यत्कालाय समर्प्य वि. सं. २०१४ वर्ष एकस्मिन्नेव दिने । संवत्सरीपर्वण आराधनाकरणस्यानन्दं सर्वेऽनुभूतवन्तः ।।
इतः पूज्यप्रेमसूरीश्वराः श्रीसङ्घस्य महत्त्वपूर्ण प्रश्ने । निमग्ना आसन्। इतश्च दादरस्थस्वप्रशिष्याचारुस्वास्थ्योदन्तेन ते सदैव चिन्तिता आसन्। चातुर्मासानन्तरं मुम्बापुरीगमनस्य विचारं तेऽकुर्वन्। किन्तु मुम्बापुर्यां सर्वप्रकारोपचारैरपि पूज्यपद्मविजयैः स्वास्थ्यं न लब्धम् । तेन तैरेव पूज्येभ्यः संदेशः प्रहितो यत् 'युष्माभिर्मुम्बापुरी प्रति नागन्तव्यम् । यदि भवतामाज्ञा स्यात्तर्हि वयमेव तत्रागमिष्यामः।' पूज्यैरपि राजनगरं प्रति विहरणाय तेभ्य आज्ञा दत्ता ।
इतश्चातुर्मासानन्तरं राजस्थाननिवासिवनाजीपुत्रचेलाजीपरिवारेण स्वजन्मभूमिचलवाडनगरात्सिद्धगिरेः पदयात्रासङ्घस्यायोजनकरणभावना पूज्यानामग्रे प्रदर्शिता। तेषां पिता : सङ्घायोजनाभिग्रहं गृहीतवान्, किन्तु पूर्णीकर्तुं नाशक्नोत्, तत्पूर्वमेव सः स्वर्गलोकातिथिर्बभूव । पुत्रैः पित्रे वचनं दत्तं