________________
में समतासागरचरितम् -
-
-
३७
* ३८
omkarenger
- समतासागरचरितम् ।
मुत्साहवन्तोऽभवन् । केन्सरग्रन्थिनिर्णये सजाते गुरुदेवसूचनया निष्णातवैद्यस्य रासायणिकोपचारास्तैः प्रारब्धाः । किन्तूपचारैर्विक्रिया दर्शिता । शरीरे तीव्रधर्मप्रकोपः सञ्जातः, उपवेशनस्थाने व्रणानि सञ्जातानि । त उपवेष्टुमपि नाशक्नुवन्, सोढुमपि नाशक्नुवन, ईदृशी तेषां शारीरिकपरिस्थितिः सञ्जाता। पयुर्षणपर्वागतम् । तैस्त्वग्वर्त्तनेनापि लोचः कारितः। ईदृश्यासीत्तेषां संयमैकनिष्ठताचारदाढयं च । अन्ततो गत्वाऽन्येन वैद्येन रासायणिकविक्रिया निपुणतया वारिताः।।
पूज्यपद्मविजयानामियं विशेषताऽऽसीद्यदीदृग्भयङ्करव्याधावपि ते प्रतिकारार्थ कदापि विचारमात्रमपि न कृत-: वन्तः। उभयगुरुदेवसूचनानुसारेण योग्यसमये योग्योपचारपथ्यानि ते सेवितवन्तः। कदाचिदुपचारा विक्रियामपि दर्शितवन्तस्तथापि तेषां मनसि मनागप्यप्रसन्नताऽसमाधिरावेशो वा न प्राविशत् । स्वजीवनचरमक्षणं यावत्तेषामयं समर्पितभाव आसीत् ।
वैद्यैः किरणग्रहणं सूचितम् । अन्ततः टाटारुग्णालये चिकित्सा कारिता । प्रायोऽष्टाविंशतिरुपवेशनानि सञ्जातानि। ग्रन्थिर्विलीना । इषत्स्वस्थतानुभवो जातः। प्रतिचातुर्मासं टाटारुग्णालये चिकित्सा कारणीयेति तत्रत्यडोक्टरबोर्जीसस्य सूचनमासीत् । ततः वि.सं.२००९ वर्षे पूज्यपद्मविजयैर्दादरमध्ये चातुर्मासः कृतः। पूज्यप्रेमसूरीश्वराणां चातुर्मास ईर्लाब्रीजमध्य आसीत्, पूज्यभानुविजयानां च ।
चातुर्मासः पार्लामध्य आसीत् । तदानीं पार्ला विकसन्नुपनगरमासीत् । अतस्तत्र व्यवस्थितः सङ्घ उपाश्रयो वा नासीत् । ततो न कोऽपि तत्र चातुर्मासं कृतवान् । सङ्घोऽप्याराधनारागेण सुष्ठु रञ्जितः । चातुर्माससमाप्त्यनन्तरमृतुबद्धकालेऽपि ते तत्र स्थिताः । वैराग्यरसनिर्भरप्रवचनैरनेकभव्यात्मानो भाविताः ।। ___फाल्गुनमासे पूज्यप्रेमसूरीश्वरैः सपरिवारै सिकनगरं प्रति विहारः कृतः ।
पूज्यपद्मविजयानां दादरचातुर्मासमप्यतिभव्यं सजातम् । पूज्यप्रेमसूरीश्वरैर्नूतनदीक्षितसाधुबृहत्समुदायः संस्करणकृते पूज्यपद्मविजयैः सह प्रेषितः। पूज्यपद्मविजयैर्मुनयोऽपि शोभनमभ्यासं कारिताः । तैर्मुनिभ्यः संयमस्य सुशिक्षा दत्ता। साधवोऽपि नित्यैकाशनसततस्वाध्यायजिनभक्तिविनयवैयावृत्त्यादियोगेषु तल्लीनाः सञ्जाताः। श्रीसङ्घनापि वास्तविकगुरुकुलवासो दृष्टः श्रीसङ्घोऽतीव प्रभावितः।।
पूज्यपद्मविजयानामियं विशेषताऽऽसीद्यत्ते महात्मानो वात्सल्येन स्वाध्याये विनयभक्त्यादिष्वपि च समीचिनतया योजितवन्तस्तथा तेषां हृदयेऽत्युच्चैः समर्पितभावं निर्मीतवन्तः। ते साधुभ्यः संयमाचारसमितिगुप्तिपालनादिविषयेषु वाचनां दत्तवन्तो व्यक्तिगतां च प्रेरणां दत्तवन्तः। तच्चातुर्मासे तेषां स्वास्थ्यमपि सुचार्वासीत् ।
चातुर्माससमाप्त्यनन्तरं ते कियत्कालं तत्रैव स्थिताः। फाल्गुनमासे पूज्यप्रेमसूरीश्वरैः सह तैरपि नासिकनगरं प्रति