________________
* समतासागरचरितम्
aftegort- ३५
यात्राऽभवत्, ततः प्रवचनवर्षाऽभवत्, ततः साधवो गोचर्यर्थं निरगच्छन्, ततः प्राय एकवादने सर्वे समुद्देशनमण्डल्यां समुद्देशनार्थमुपाविशन् । अस्वस्थतायां सत्यामपि ते पूज्यैः सह सर्वकार्यक्रमेषु सहैवातिष्ठन् । अध्वन्यानन्दादिनगरेषु निष्णातवैद्यैस्तेषां चिकित्सनेऽपि किमपि विशेषनिदानं न प्राप्तम् । पूज्यभानुविजयाः सुरतनगरे त्रियुवदीक्षाप्रसङ्गेऽग्रे गताः। त्रीन्यूनो दीक्षित्वा ते मुम्बापुरीं प्रत्यचलन् । महेसाणावासिश्रीकान्तिलालः प्रव्रज्य मुनिश्रीधर्मगुप्तविजयः सञ्जातः, सुरतनिवासिश्रीफतेचन्दः प्रव्रज्य मुनिश्रीधर्मानन्दविजयः सञ्जातः, कच्छ्वासिश्रीतेजपालः प्रव्रज्य : मुनिश्रीतत्त्वानन्दविजयः सञ्जातः । त्रयोऽपि वतिनः पूज्यभानुविजयानां शिष्याः समजायन्त । श्रीफतेचन्दस्य द्वाभ्यां । भगिनीभ्यामपि तत्र प्रव्रज्या गृहीता ।
मुनिश्रीहेमन्तविजयमुनिश्रीपद्मविजयादिभिः सह विहरद्भिः पूज्यपादाचार्यप्रेमसूरीश्वरैरपि राणपुरनगरे मूलचन्दनाम्नो मुमुक्षोर्दीक्षा कृता, तस्मै मुनिश्रीभद्रगुप्तविजय इति नाम प्रदत्तम् । सः पूज्यभानुविजयानां शिष्यः सञ्जातः । ततो मुम्बापुर्यां वैशाखशुक्लतृतीयादिने लालबागोपनगरे भव्यस्वागतयात्रया सह पूज्यैः प्रवेशः कृतः । पूज्यभानुविजयानां वैराग्यपूर्णानि प्रवचनानि सञ्जातानि । अनेकपुण्यात्मभिः तेषां प्रवचनगङ्गायां स्नानं कृतम् । वैशाखशुक्लषष्ठयां मुमुक्षुश्रीरमणिकस्य दीक्षा जाता, सः पूज्यभानुविजयानां शिष्यो। मुनिश्रीराजेन्द्रविजयः सञ्जातः ।
f३६ %arkaryay - समतासागरचरितम् । 1 पूज्यपद्मविजयानां शारीरिकास्वास्थ्यं वर्धमानमासीत्,' मस्तके पीडाऽभवत्, भोजनगिलनं कृच्छ्रे णाभवत्, गलनासिकाभ्यामनेकशो रक्तमपि निरगच्छत् । तथापि तेषां । दैनिकचर्या पठनपाठनादिप्रवृत्तयश्चास्खलितधारयाऽचलन् । वैद्या : अपि पूज्यपद्मविजयानां रोगनिदानं कर्तुं नाशक्नुवन्। तदानीं कोटोपनगरश्रावकाः डोक्टरहरिमानीतवन्तः। तेन पूज्यपद्मविजयानां शरीरं चिकित्सितं, तेषां च गलकमन्तवृत्त्या समीचिनतया निभालितं, बहिर्वृत्त्या तेन हस्तेन तेषां गलकं, बलपूर्वकं स्पृष्टम् । ततः कतिचित्क्षणान्यावद्विचिन्त्य गलके केन्सरग्रन्थेस्तेनानुमानं कृतम् । मुम्बापुरीरुग्णालयमध्ये तेषां । 'बायोपसी' चिकित्सा कृता । ततः केन्सरस्य निदानं जातम् ।
केन्सरव्याधिः कीदृक्भयङ्करोऽस्ति तद्वयं विद्मः । किञ्च तत्काले किरणग्रहणं विना केन्सरपीडाशमनायान्योपायो नासीत् । केन्सरस्त्वसाध्यो व्याधिः । केन्सरः शरीरे घोरपीडोत्पादको रोगः। एतन्नामश्रवणेनाप्यनेके जनाः खिन्ना अभवन् । अत एवानेकप्रसङ्गेषु स्वजना रोगिणः केन्सरनिदानं गोपितवन्तः। पूज्यपद्मविजयैतिं यत्तेषां शरीरं केन्सरव्याधिना ग्रस्तमभवत् । तथापि ते सम्पूर्णतया स्वस्था अभवन् । ते देवगुरुणामुपर्यगाधश्रद्धावन्त आसन् । श्रीअरिहन्तसदृग्देवपूज्यप्रेमसूरिपूज्यभानुविजयसदृशगुरुन्प्राप्य तेऽतीव निश्चिन्ता अभवन् । ततः केन्सरनिदानेऽपि तेषां चित्तप्रसन्नता मनागपि हीना न सञ्जाता । प्रत्युत तेऽधिकं सावधानीभूयाराधनाया