________________
समतासागरचरितम्
माता पुत्रं प्रसूते । ततस्तं संवर्धयति पुष्णाति च, एवमेव सुष्ठु पालिताः प्रवचनमातारः संयमदेहं जनयन्ति वर्धयन्ति च । पूज्यप्रेमसूरीश्वराः पूज्यभानुविजयाश्च स्वीयानन्यसाधनायां सत्यामपि विशालगच्छसङ्घचिन्तायामपि च सत्यां प्रवचनमातृपालने सदा दत्तावधाना आसन्, कदाचिदनाभोगेनापि स्खलनायां जातायां ते स्वयं स्वं शिक्षितवन्तो दण्डितवन्तो यथा रजोहरणप्रतिलेखनस्य विस्मरणे तेऽन्यदिन आचामाम्लं प्रत्याख्यातवन्तः, भोजनावसरे भाषस्खलनायां जातायां ते पञ्चविंशतिक्षमाश्रमणान्दत्तवन्तः । पूज्यपद्मविजयैरपि आशैशवादेते संस्काराः प्राप्ताः प्रारब्धाश्च । वसतौ बहिर्वा चलने भूमिविलोकनं ते कदापि न विस्मृतवन्तः। अन्धकारभवनपूर्वमेव हस्ते दण्डासनं गृहीतवन्तः, तदुपयोगपूर्वकं च चलितवन्तः । भाषासमितिवचनगुप्तिपालनकृते ते परिमितमेव भाषितवन्तः । तदपि यदि आवश्यकं तदा पथ्यं तथ्यं च वचनमुच्चरितवन्तः । एषणासमित्यां तु तेषां कौशलमद्वितीयमासीत् । गोचर्यां दोषान् सूक्ष्मेक्षिकया गवेषयित्वा निर्दोषाहारजलान्यानीय तेन स्वं निर्वाहितवन्तः । भिक्षा कथमानेया ? कथं दोषाणां गवेषणं करणीयं ? दातृभाववृद्धिः कथं सम्पादनीया ? कियन्ति वस्तूनि सन्ति ? ततः कियन्ति गृहीतव्यानि ? इत्यादिकं स्वेन समं साधून्गोचर्यां नीत्वा तेऽतीव सूक्ष्मतया तान्शिक्षितवन्तः । तेऽनेकशोऽकथयन्यदवसर आगते साधुः व्याख्यानसकाशात् गोचर्याऽधिकमधिकलोकांश्च प्रतिबोद्धुं शक्नोति । वस्तूनां
२९
- समतासागरचरितम् ग्रहणमोक्षणेषु, द्वारवातायनानामपावरणपिधानेषु, प्रश्रवणादिपरिष्ठापनेषु, स्थंडिलभूमिगमने ते चतुर्थपञ्चमसमिती सततमुपयुक्तवन्तः। प्रतिलेखनप्रमार्जनानि ते कदापि न विस्मृतवन्तः । अभ्यासेन तेषामुपयोग ईदृग्दृढः सञ्जातो यत्केन्सरव्याधावपि प्रतिलेखनप्रमार्जनेषु ते न स्खलितवन्तः।
पूज्यपद्मविजयानां ज्ञानसाधनाया विस्तरेण वर्णनं पूर्व कृतम् । किन्तु ज्ञानेन सह क्रियायामपि ते तावदेव जागरुका आसन्, ते क्रिया मुद्राभिः सहैकाग्रतयाऽकुर्वन्, स्वाध्यायलोभात् ते क्रिया रभसाऽविधिना च नाकुर्वन् । यथाशक्त्युर्ध्वस्थानेनैव ते प्रतिक्रमणादिक्रियाः सम्पादिवन्तः। शस्त्रक्रियासमयेऽपि क्लोरोफार्मस्य प्रभावापसरणे सति रात्रौ तैः प्रतिक्रमणं स्मृतम् । आलोचनाप्रायश्चित्तयोरपि ते नियमिता आसन् । प्रतिदिनं सायंकाले दिनजातातिचारांस्ते विनापवादं लिखितवन्तः । उचितकाले गुरुभ्य आलोचनां दत्त्वा प्रायश्चित्तं वोढवन्तः । कदाचिद्रात्रौ 'लोगस्स' सूत्रस्य मालाजापं कृत्वा ते प्रायश्चित्तर्णादनृण्यभवन् । दोषेष्वरुचिः प्रायश्चित्तेन च शुद्धिकरणमिति तेषामद्भूतात्मजागृतेः सूचक आस्ताम् । भयकृत्केन्सरव्याधौ सुरेन्द्रनगरमध्ये, शरीरपुष्ट्यर्थं तेषामुदरे नलिका योजिता । ततस्ते मृत्युमुखात्पुनरागताः । तदा यदाधाकर्मिकादिकसेवनं सञ्जातं ये च शस्त्रक्रियायामारम्भसमारम्भादिदोषाः प्रतिसेवितास्तेषां न केवलं मनसा किन्तु पूज्यप्रेमसूरीश्वरसमक्षमपि निन्दनगर्हणे ते कृतवन्तस्तेषाञ्च सूचनानुसारेण जापादिकरणेन स्वात्मानं शोधितवन्तः ।
३०