________________
समतासागरचरितम् 443
विनयभक्तिष्वपि तेऽतीव कुशलाः सञ्जाताः । इत्थं मुनिगणसंस्करणेन तैरपूर्वा गच्छसेवा कृता । भयकृत्केन्सरव्याधौ पीडावर्धनेन यदा मुखेन भोजनं भाषणं च स्थगितं तदापि ते लिखित्वाऽपि बालमुनीन्प्रेरितवन्तः । ते श्रावकानपि पत्रादिभिराराधनायां प्रेरितवन्तः ।
२७
समुदायस्यान्यकार्येष्वपि ते सततं व्यस्ता आसन् । पूज्यप्रेमसूरीश्वराणां मन्त्रीसदृशास्तेऽभवन् । पूज्यानां संपूर्णं पत्रव्यवहारं ते निभालितवन्तः । आगतपत्राणि पूज्येभ्यो दर्शयित्वा तेषामिच्छानुसारं प्रत्युत्तराणि ते लिखितवन्तः । पूज्याः श्रीसङ्घेऽग्रगण्या आचार्या आसन् । ततोऽनेकशो विविधसङ्घप्रश्नाः पूज्यानां समीप आगतवन्तः । तदा तेषां समाधानकरणकार्ये ते पूज्यानामनन्याः सहाया अभवन् । इत्थं गच्छसेवया सह सङ्घसेवाया अपि लाभं ते प्राप्तवन्तः । देवद्रव्यप्रश्नेष्वनेकशास्त्रपाठान्सङ्गृह्य तैः पूज्यप्रेमसूरीश्वरान्वयेन विविधाचार्यमुनिभिः सार्धं पत्रव्यवहारः कृतः । एवमेव सर्वप्रसङ्गेषु पूज्यप्रेमसूरीश्वरैः सह वसनेन तेऽनेकप्रसङ्गपारप्रापणार्थं यत्नं कृतवन्तः । मुम्बापुरीधारासभामध्ये 'बालदीक्षा - प्रतिबंधको' निर्णय आगतः । पूज्यप्रेमसूरीश्वरैस्तस्य निष्फलीकरणार्थमहर्निशं परिश्रमः कृतः । तदा पूज्यपंन्यासभानुविजयपूज्यपद्मविजया अपि तावदेव प्रयतितवन्तो निर्णयं च निष्फलं कारितवन्तः ।
पूज्यप्रेमसूरीश्वरैः सह सदैव विपुलः साधुसमुदायोऽवसत् । पूज्यपद्मविजया एतत्तविशालसमुदायस्य भोजनादिपरिवेषणस्य
* समतासागरचरितम्
परिश्रमं कृतवन्तः । एतत्कार्ये ते वृद्धयतीनां भक्तिं कृतवन्तः, बालवृद्धग्लानसहिष्ण्वसहिष्ण्वादिसर्वसाधून्सम्भालितवन्तः । ततस्ते सर्वसाधुहृदयेऽवसन् । राजानः स्वीयोत्तममन्त्रिभ्यो निश्चिन्ताः सन्ति । तथैव पूज्यपद्मविजयसदृशमन्त्रिभ्यः पूज्यप्रेमसूरीश्वरा अप्यतीव निश्चिन्ता आसन् । तत एव पूज्य - पद्मविजयस्वर्गवासप्रसङ्गे पूज्यप्रेमसूरीश्वराणां मुखात्सहजभावेन शब्दा निःसृताः - 'मम दक्षिणो हस्तो नष्टः । इत्थं विनय - समर्पितभाव-भक्ति- अनुवर्त्तनैः गुरुदेवहृदये स्थानं प्राप्य ते धान्यतिधन्याः सञ्जाताः । अधोलिखितशास्त्रश्लोकतैः स्वजीवने सार्थकः कृतः ।
धन्ना ते जीयलोए गुरवो निवसंति जस्स हिययंमि । धन्नाण वि सो धन्नो गुरुण हियए वसइ जो उ ।।
यस्य हृदये गुरवो निवसन्ति ते जीवलोके धन्याः । स तु धन्यानामपि धन्यो यो गुरूणां हृदये वसति ।
अष्टप्रवचनमातृपालनम् - क्रियातत्परता पञ्चसमितयः त्रिगुप्तयश्चेत्येता अष्टौ प्रवचनमातरः शास्त्रकृद्भिः कथिताः । अत्र प्रवचनपदेन संयमः ज्ञेयः । संयमस्यैता अष्टौ मातारः सन्ति । विरागिणं शालिभद्रं यदा माताऽकथयत्- “बाल ! अत्र त्वहं त्वां निभालयामि, किन्तु प्रव्रज्यायां त्वां कः सम्भालयिष्यति ?” तदा शालिभद्रेण प्रत्युत्तरं दत्तं - "मातः ! अत्र तु त्वमेकैव में माताऽसि, किन्तु संयमजीवने तु मामष्टाष्टौ प्रवचनमातारः सम्भालयिष्यन्ति ।"
२८