SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ , समतासागरचरितम् meriment १५ * १६ generalm- समतासागरचरितम् । अथ तपः त्यागश्च पूज्यपद्मविजयानां संयमजीवनं द्विविभागीभवतिदीक्षाप्रभृतिप्रारंभिकषोडशवर्षाणि तत्पश्चाच्च केन्सरामयावस्थायां व्यतितानि समाधिमयानि दशवर्षाणि। तैर्दीक्षादिनादेवैकाशनानि प्रारब्धानि। इदं च तैः स्वप्रगुरुदेवप्रेमसूीरश्वराणां जीवनाद्गृहीतम् । पूज्याचार्यवर्याः स्वजीवने दीक्षादिनादेवैकाशनानि कृतवन्तः। अष्टषष्टिवर्षसंयमपर्याये हृदयरोगपश्चाद्भाव्यन्तिमद्वित्राणि वर्षाणि मुक्त्वा । पूज्याचार्यवर्यैः प्रायशः पञ्चषष्टिवर्षाण्यखण्डितान्येकाशनानि कृतानि, तत्रापि प्रायेण मिष्टान्नफलानां तु सदैव त्याग एवा-2 ऽऽसीत् । पुनापत्तनचातुर्मासेषु तु तैरकाशनेष्वप्याहारसूपयोराहारपयसोश्च द्वयोर्द्रव्ययोरभिग्रहः कृतः। एकाशनैः सह । विहारादिषु जैनानामभावे जैनेतरगृहानीतनिर्दोषाहारेण ते स्वनिहिं कृतवन्तः। अन्यच्च ग्लानभक्ति-वैयावृत्त्य-गुरु-विनयस्वाध्याय-उग्र ब्रह्मचर्य-अन्तर्मुखता-कषायमन्दतासहनशीलताद्यनेकगुणसाधनासुवासोऽपि परमगुरुदेवानां जीवनात्पूज्यपद्मविजयैर्गृहीतः । दीक्षादिनादेव नित्यैकाशनमिष्टान्नफलशुष्कफलत्यागाद्यभिग्रहास्तैः कृताः । जल्पनसमये : यदि मुखवस्विकाया उपयोगो विस्मृतस्तर्हि चकारस्त्यजनीय। इति तैरभिग्रहः कृतः । पुनः केन्सररोगवृद्धावन्ते चोदरे नलिकायोजनानन्तरं केवलं द्रवपदार्थग्रहणात्तेषां सर्वत्यागः सञ्जातः । किंतु कदापि तैरेतस्य विचारोऽपि न कृतः ।। निसर्गेण दत्तां परिस्थितिं सहर्ष स्वीकृत्य परिस्थित्यनु सारेणाधिकाधिकाराधना करणीयेति तेषां दृढः सङ्कल्प आसीत् । तेषां समय एवामेरिकोपप्रमुखडल्लासः केन्सरव्याधिना पीडित आसीत् । विश्वविश्वे तेन घोषणा कारिता यद्यः कश्चिदपि मम व्याधेरुपशमनं करिष्यति तस्मा : अहमिच्छानुसारेण द्रव्यं दास्यामि । दीनतापूर्णा घोषणां कारयतोऽतिधनाढ्यस्य तस्येयमवस्था जाता। तदा निःस्पृहा : अकिंचनाश्च गुरुदेवा केन्सरव्याधिनेषदप्यदीना व्याधिं कर्मक्षपणशोभनावसरं गणयन्नात्मारामे रता आसन् । कीदृशी । गुरुदेवानां गौरवपूर्णा स्थितिः ! नूनमतीव चिन्तनानन्तरं प्रतिभासते यचतुर्थारकसाधकः कर्मविचित्रतया पंचमारकेऽत्र : भरतेऽवतीर्णः । शास्त्रेषु चतुर्थारकमुनीनां परिषहसहनादिवर्णनं यथा दृश्यते साक्षात्तथैव गुरुदेवानां जीवनेऽप्यदृश्यत ।। केन्सरव्याधौ तैः कृताया मासक्षपणादिघोरतपश्चर्याया वर्णनमग्रे करिष्यामः। केन्सरव्याधिभवनात्पूर्व तैर्नित्यैकाशनैः सह वर्धमानाचामाम्लतपस एकोनचत्वारिंशदोलयः कृताः । आहारेष्विव वस्त्रेष्वपि ते निःस्पृहा आसन्। मासात् पूर्व वस्त्राणि क्षालयितुं न दत्तवन्तः । मलिनवस्त्राणि ते साधुताया भूषणस्वरुपाण्यमन्यन्त । ते विभूषाया विरोधिन आसन्। अथ निःस्पृहता साधुजीवने प्रारंभ आहारस्योपधेश्च स्पृहया संयमजीवनं मलिनं भवति पश्चाच्च व्याख्यानशिष्यपदवीनां स्पृहया जीवनं दूषितं सञ्जायते इति परमगुरुदेवस्वगुरदेवानां हितशिक्षावचनान्यपि तैः स्वजीवने पालितानि। परमगुरुदेवानाम
SR No.009543
Book TitleSamta Sagar Charitam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2004
Total Pages80
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy