________________
१३९
तरङ्ग-१५ : अगडदत्तकुमारचरितम् ततः पितृवनासन्न-शून्यदेवकुलाग्रतः । मध्येभूतवनं पेटा, विश्रमार्थममोचयत् ॥१२०॥ ततः सुप्तेषु सर्वेषु सोऽपि कृत्रिमनिद्रया । सुष्वाप राजपुत्रस्तु, चिन्तयामासिवानिति ॥१२१ ॥ अहो चौर्यमहो क्रौर्य-महो शक्तिरहो मतिः । अहो प्रपञ्चः कोऽप्यस्य, विश्वास्यस्तदयं न मे ॥१२२ ॥ इत्युत्तरीयं विन्यस्य, प्रस्तरे वटकोटरम् । प्रविश्य सुस्थितस्तस्थौ, खड्गव्यग्रकरः पुरः ॥१२३ ॥ परिव्राडपि तान् सुप्तान्, हत्वा खड्गेन देशिकान् । उत्तरीयं कुमारस्य, बद्धक्रोधो द्विधा व्यघात् ॥१२४ ।। शून्यं श्रस्तरमुवीक्ष्य परितो यावदीक्ष्यते । तावदाकृष्टखड्गेन, कुमारेण स तर्जितः ॥१२५ ॥ रे रे तस्कर ! विश्वस्त-घातपातकपांसुर! । क्वेदानीं यासि मत्तस्त्वं मृगो मृगपतेरिव ॥१२६ ॥ करवालकरालेऽथ, वल्गति क्षितिपात्मजे । पलायनं विना स्वस्य, तेन मेने न जीवितम् ॥१२७ ।। कुमारः खड्गदण्डेन, शम्यासम्पातबन्धुना । तस्योरुयुगलं बाल-कदलीच्छेदमच्छिदत् ॥१२८ ॥ प्राह साहसिकः सोऽथ, धैर्यबुद्ध्यादिभिर्गुणैः । रञ्जितोऽहं महाभाग ! नाऽऽगस्ते गणयाम्यतः ॥१२९ ॥ तदस्याऽऽयतनस्याऽस्ति, पृष्ठदेशे प्रतिष्ठितः । व्योमविस्तारसंहार-व्यग्रो न्यग्रोधपादपः ॥१३०॥ तत्कोटरान्तरं स्थूल-पाषाणपिहिताननम् । पातालभवनं मेऽस्ति, रत्नसम्भारभासुरम् ॥१३१॥
१४०
कथारत्नसागरे तत्र वीरमती नाम, जामिर्मम कनीयसी । अस्ति तारुण्यलावण्य-भाग्यसौभाग्यमन्दिरम् ॥१३२ ॥ सा मयाप्तिसङ्केतं, प्राप्तं त्वां परिणेष्यति । मदीयकोशसर्वस्व-मवश्यं चार्पयिष्यति ॥१३३ ॥ खड्गं मदीयमादाय, तदभिज्ञानहेतवे । गत्वा वीरमतीत्युक्त्वा, द्वारमुद्घाटयेस्ततः ॥१३४ ।। कुमारस्तत्र गत्वाऽथ तच्च कृत्वा यथोदितम् । पातालभवनस्यान्तः, प्रविवेश विशङ्कितः ॥१३५ ।। तत्र वीरमतीं वीक्ष्य, नयनानन्दकौमुदीम् । तच्चाद्भुततमं वेश्म, विस्मितोऽभूः नृपात्मजः ॥१३६ ॥ स तस्याः कथयामास, भ्रातृवृत्तान्तमादितः । तदीयमण्डलाग्रं च, तदभिज्ञानमार्पयत् ॥१३७ ।। क्वा(सा)पि स्वागतमासूत्र्य, हर्षोत्फुल्लविलोचना । ऊचे वैवाहिकी यावत्, सामग्री विदधाम्यहम् ॥१३८॥ वासवेश्मनि पल्यङ्के, तावद्विश्रम्यतां त्वया । इत्युक्त्वा तं द्वितीयायां, भूमिकायां जगाम सा ॥१३९ ।। कुमारोऽचिन्तयत् द्विष्टे, विश्वासो मम नोचितः । इति पल्यङ्कमुत्सृज्य, कोणे तस्थौ तिरोहितः ॥१४० ॥ पश्यतोऽथ कुमारस्य, शिलया यन्त्रमुक्तया ।। चूर्णीकृतश्च पल्यङ्को, निःशङ्का साप्युपागमत् ॥१४१॥ मदीयं सोदरं हत्वा, क्व रे ! जीवक! जीवसि । इति ब्रुवन्तीं तां केशैः, कृष्टवान् पिष्टवांश्च सः ॥१४२ ।। तां सहैव समाकर्षन्निःसृतो वेश्मनो बहिः । राजपूत्रस्तदा द्राक्षीत्तरुणामरुणप्रभाम् ॥१४३ ॥