________________
११३
तरङ्ग-१३ : पुरन्दरकथा
| मातापित्रादिपूजने पुरन्दरकथा तरङ्गः-१३ येषामतिधनं पूज्य-चरणाराधनं धनम् । वशंवदः सदा तेषा-मिच्छासुलभसिद्धयः ॥१॥ ततस्तदर्थिना देवो, गुरुर्माता पिताऽपि च । भक्त्या पुरन्दरेणेव, पूजनीया विवेकिना ॥२॥ पुरी जयन्ती नामाऽस्ति, जयन्ती स्वर्गसम्पदम् । अनुग्रैरीश्वरवातै-रगदैः पुरुषोत्तमैः ॥३॥ तस्यामरिकरिश्रेणि-केसरी केसरी नृपः । आसीद्वसुधरेत्यस्य, प्रिया स्थैर्यवसुन्धरा ॥४॥ भक्तः शक्तो विविक्तश्च, कलालीलानिकेतनम् । अभूत् पुरन्दरः सूनु-र्गुणरत्नाम्बुधिस्तयोः ॥५॥ असावहर्दिवं देवान्, गुरूनपि च पूजयन् । एकतानमना मेने, तदद्वैतं जगत्पतिः ॥६॥ आस्थानस्थेऽन्यदा राज्ञि, पादान्तिकं गते सुते । ससम्भ्रमः समभ्येत्य, प्रतीहारो व्यजिज्ञपत् ॥७॥ स्वामिन्नकस्मादायातं, परचक्रं निशम्यते । विशद्भिर्बाह्यलोकैश्च, नगरी पूर्यतेऽधुना ॥८॥ अश्ववारानथादिश्य, यावत् सन्नह्यते नृपः । सान्धिविग्रहिकेणैत्य, विज्ञप्तस्तावदुच्चकैः ॥९॥ तदा देव! त्वदादेशाद्, गतोऽहं हस्तिनापुरम् । तद्भर्तुः कामपालस्य, पुत्री मदनकन्दलीम् ॥१०॥ पुरन्दरगुणाऽऽकृष्टा-मतिसृष्टां महीभुजा । ससैन्यां तामुपादाय, देवपादान्तमागमम् ॥११॥
११४
कथारत्नसागरे तदेतया सहायातं, परचक्रभ्रमप्रदम् । समादिश विशामीश, सैन्यमेतत् क्व तिष्ठतु ? ॥१२॥ इति विज्ञापितः प्रीतः, प्रत्युत्थानादिगौरवम् । विधाय तस्य दैवज्ञान्, असौ विज्ञानजूहवत् ॥१३॥ तैरथ स्थापिते लग्ने, भूपतिर्विभवोचिताम् । सर्वां विवाहसामग्री-मव्यग्रितमतिर्व्यधात् ॥१४॥ अथ लग्नस्य यामिन्यां, धवलध्वनिबन्धुरम् । निवृत्तकौतुकाचारः, कुमारः प्राप मण्डपम् ॥१५॥ ताम्बूलोत्फुल्लगल्लासु तत्र च स्खलदक्षरम् । गायन्तीषु कुलस्त्रीषु, प्रमोदिनि वधूवरे ॥१६॥ हर्षोत्कर्षमये राज्ञि, स्वच्छन्दे च परिच्छदे । राजपुत्रः प्रमोदेन, सहागच्छददृश्यताम् ॥१७॥ अथाऽदृष्ट्वा कुमारं तं, लोकः शोकमयोऽभवत् । अमुह्यत महीनाथोऽमूर्छन्मदनकन्दली ॥१८॥ छिन्नमूर्छाऽथ सा कष्टा-च्चन्दनव्यजनादिभिः । विलाप्य बहुधा वह्ना-वहाय मतिमातनोत् ॥१९॥ मौहूर्तिकानां तथ्याभि-रुक्तिभिर्युक्तिभिश्च ताम् । कथञ्चिद् वारयामास, मासमात्रं महीपतिः ॥२०॥ प्रत्याशप्रहितैस्तैस्तैः, सुतोदन्तहरैनरैः । नृपतिः प्राप नैवात्तॊ, वार्तामात्रमपि क्वचित् ॥२१॥ दिने त्रिंशत्तमेऽथासौ, वार्यमाणाप्यकारयत् । प्रेयोविरहसन्ताप-शान्तिकर्मोचितां चिताम् ॥२२॥ मूर्च्छत्यथ महीनाथे, परिवारे निवारिणि । विलापतुमुले लोके, हाकारमुखरैर्मुखैः ॥२३॥