________________
तरङ्ग-१२ : अदत्तादाने वीर्यरामकथा देव्याः प्रभावादन्यस्तु, यादोभिर्मकरादिभिः । तत्र प्रविष्टमात्रोऽपि, खण्डखण्डैर्विभज्यते ॥३६॥ ततः कृष्णचतुर्दश्यां, भीमभूपे सभापतौ । मुकुटे श्रेष्ठिहस्तस्थे, वीर्यरामान्तिकस्थिते ॥३७॥ दृष्टः प्रविष्टमात्रोऽपि, कालस्तत्रऽमहाहूदे । सभासमक्षमेवाऽज्ञः, सञ्जज्ञे यादसां बलिः ॥३८॥ करे किरीटमादाय, द्युतिद्योतितदिग्मुखम् । लुब्धः क्षितिपतिः प्राह, वीर्यरामं पुरःस्थितम् ॥३९॥ गृहाण मुकुटं भद्र ! त्वमप्यर्चय चर्चिकाम् । इत्युक्तोऽसौ महीशेन, विवेशान्तर्महाहूदम् ॥४०॥ अभ्येत्य मकरेणाथ, निजपृष्ठप्रतिष्ठितः । चण्डिकायतनं नीतः, स्फीतधर्मानुभावतः ॥४१॥ चण्डीमभ्यर्च्य चायात-स्तथैव नृपतेः पुरः । साधुवादैः समं सभ्यै-रभ्यर्चि सुममालया ॥४२॥ कोटीरमर्म्यतां स्वामिन्, सभ्येष्वितिवदत्स्वपि । प्रातः समर्पयिष्यामी-त्युक्त्वोत्तस्थौ धराधरः ॥४३॥ द्वितीयेऽह्नि पुनः श्रेष्ठी, विज्ञप्य पृथिवीपतिम् । अकृतार्थः समागत्य, तस्थावस्वस्थमानसः ॥४४॥ वीर्यरामोऽपि राजानं, जानन् लोभवशंवदम् । उवाच श्रेष्ठिनं दुःख-मशक्यार्थे करोषि किम् ? ॥४५॥ इतश्चास्त्यस्य भूभर्तुः, मन्त्री नाम्ना विशारदः । प्रियाऽस्य सुन्दरी रूप-सम्पदा सुरसुन्दरी ॥४६ ।। अन्यदा जाह्नवीतीरे, वासिनीं विन्ध्यवासिनीम् । अभ्यर्चयितुमायाता, सस्नौ सा तत्र निर्जने ॥४७॥
कथारत्नसागरे स्वैरं स्नाती च तां वीक्ष्य, यक्षस्तत्क्षेत्रनायकः । अचिन्तयदहोरूप-महोलावण्यसौरभम् ॥४८॥ इमां विधास्यता मन्ये, वेधसा विदधे श्रमः । इन्दीवरेन्दुकङ्केल्लि-कदली-काञ्चनादिभिः ॥४९॥ इति चिन्तयतस्तस्य, देवीमभ्यर्च्य भक्तितः । याप्ययानमधिष्ठाय, निजं धाम जगाम सा ॥५०॥ यक्षोऽपि पृष्ठतस्तस्य, मन्मथव्यथितो ययौ । सति स्मरशरासीरे, क्व शीलं ? क्व विवेकिता ? ॥५१॥ स्थित्वाऽथ तद्गृहद्वारे, यक्षः करणवर्तिनः । मन्त्रिणो रूपमाधाय, विवशो मध्यमाविशत् ॥५२॥ आकार्य च परीवारं, स सादरमशिक्षयत् । इन्द्रजालिकः कश्चि-दायातो मृगधूर्त्तकः ॥५३॥ स चेत् मद्वेषमाधाय, मायावी प्रविशेद् गृहे । तद्वारि वारणीयोऽयं, ताडनीयश्च यत्नतः ॥५४॥ यक्षस्ताननुशिष्यैवं, सुन्दर्या सविधं गतः । यावत् स भाषते तावत्, द्वारे मन्त्री समागमत् ॥५५॥ विशंश्च वेश्मनो द्वारि, वारितो द्वारपालकैः । द्वयोरपि पदातीनां, ततः कलकलोऽभवत् ॥५६॥ भाषावेषपरीवारै-विशेषमुभयोस्तयोः । अजानन् सुन्दरीमुख्यो, जनः सर्वो विसिष्मिये ॥५७॥ मिथो विवदमानौ च, तावुभावपि मन्त्रिणौ । गतौ राजकुलं लोकै-विस्मेरस्मेरमीक्षितौ ॥५८॥ राज्ञा निजां रहो वार्ता, पुष्टावैकेकशोऽथ तौ । कथयामासतुस्तथ्यां, स्वस्वज्ञानादुभावपि ॥५९॥