________________
तरङ्ग -१०: नागकेतुकथा
नीतः श्रेष्ठिगिरा शान्ति-मसुरः पुरतो नतम् । नाऽविचार्य त्वया कार्य-मिति भूपतिमन्वशात् ॥ ५० ॥ नत्वा स्तुत्वा च तद्धर्म - नैर्मल्यमसुरे गते । आसीनमेनमभ्यर्च्य हृष्टस्तुष्टाव पार्थिवः ॥ ५१ ॥ अहो ! धर्मस्य विस्फूर्त्तिः, प्रभुत्वं तपसामहो । अहो ! महात्मनां शक्ति रहो ! रत्नप्रसूर्मही ॥५२॥ नागकेतुरपि प्राह, नाहमत्रास्मि कारणम् । जयन्ति किन्तु भाग्यानि प्राक्तनानि भवादृशाम् ॥५३॥ आराधयत तत्तानि दर्शयन्तः कृतज्ञताम् । पूज्यपूजा - तपो-दान- दीनोद्धरणकर्मभिः ॥५४॥ अमारिघोषणं बद्ध-मोचनं चैत्यपूजनम् । पात्रदानादिकं चास्य वचसा विदधे नृपः ॥५५ ॥ तेन चोत्पन्नवैराग्यो, नागकेतुस्ततः सुते । पुरो नरेश्वरादीनां भारमारोप्य वेश्मनः ॥ ५६ ॥ पोषधागारमाश्रित्य संश्रितश्रावकव्रतः । एकादशापि प्रतिमा, मतिमान् प्रतिपालयत ॥ ५७ ॥ ( युग्मम्) अथास्य पौषधस्थस्य ध्यानविध्यातचेतसः । घातिकर्मक्षयादाविर्बभूव परमं महः ॥ ५८ ॥ असौ धर्मोपदेशेन, भव्यानव्याजमुद्धरन् । यशश्रीशाश्वतं प्राप, पदमानन्दसम्पदः ॥ ५९ ॥ श्रीनागकेतुचरिताद्भुतकीर्तनेन,
विज्ञायदु:स्तपतपः प्रभवं प्रभावम् । भव्याः परं सुखमखण्डमुपेतुकामा; ध्वस्तान्तरङ्गतमसस्तपसे यतध्वम् ॥६०॥
इति श्रीमलधारिशिष्य - श्रीनरचन्द्रसूरिविरचिते कथारत्नसागरे नागकेतुचरितं नाम दशमस्तरङ्गः ॥
९७
९८
कथारत्नसागरे
परमेष्ठिनमस्कारे लक्ष्मीधरचरितं तरङ्ग -११
परमेष्ठिमयो मन्त्रराजो निर्व्याजवैभवः । एकोऽपि कीर्त्यते कामं, कामगव्यादिजित्वरः ॥ १ ॥ दानशीलतपः सत्यै र्भावनापावनात्मभिः । श्रितस्य तु किमेतस्य ब्रूमहे महिमाद्भुतम् ॥२॥ आराध्यः सुधिया शश्वद्दानादिसहितस्ततः । एष लक्ष्मीधरेणेव दृष्टादृष्टफलार्थिना ॥३॥ ख्यातं यथार्थनामास्ति, पृथिवीतिलकं पुरम् । वीक्षितं यत्र नालीक- शोभासम्भावनं पुनः ॥४॥ उवास पद्मवासापि, यत्र धर्मेण निर्मले । उत्सृज्य नलिनावास - मलिनामलिनायितम् ॥५॥ तस्मिन् रिपुद्विपव्यूह - सिंहः सिंहो महीपतिः । अभवद् वल्लभा तस्य नाम्ना मदनमञ्जरी ॥६॥ द्वासप्ततिकलापात्रं, पुत्रो लक्ष्मीधराभिधः । तत्सपत्नीभवोऽस्यास्ति, विनयी नवयौवनः ॥७ ॥ असौ विमलबोधस्य, सूरेरासाद्य देशनाम् । परमेष्ठिमयं मंत्रं जग्राह स [द्] गृहिव्रतम् ॥८ ॥ व्रतैरखण्डितैर्दान- तपः शीलादिभिश्च सः । भावेनाराधयद्धर्मे ध्यायन् पञ्चनमस्कृतिम् ॥९॥ रत्नकम्बलमन्येद्यु- र्वणिग्भिः प्राभृतीकृतम् । नृपादवाप्य साधुभ्यः, सुधीस्तदुचितं ददौ ॥१० ॥ कदाचित् कीलिकायोगाद्, व्योमगं ढौकनागतम् । समायातस्य तस्याभूत्, मयूरं मेदिनीश्वरः ॥ ११ ॥