________________
८८
तरङ्ग-९ : शारदासौहार्दम् चार्वाकोक्तेषु शास्त्रेषु, धर्मो यन्नैव मन्यते । तभारत्याः कुसंसर्गात्, तत्त्वाऽमननमुच्यते ॥२९६ ॥ सुबुद्धेर्जायते येन, हेयोपादेयविज्ञता । विवेकस्यैव माहात्म्या-दस्योपाध्यायता ततः ॥२९७ ॥ ये विद्वदुपजीव्यत्व-मान्यत्वप्रमुखा गुणाः । प्रकीर्त्तिता विवेकस्य, विदिता एव ते स्वयम् ॥२९८ ॥ यद् वाचि वीतरागस्य, धार्मिकाणां च दृश्यते । विवेकस्तेन भारत्या-स्तद्दर्शनमुदाहृतम् ॥२९९ ॥ अत एव च भारत्या, धर्मशास्त्रस्वरूपया । क्षतक्षोभस्य लोभस्य, दुष्टत्वं प्रकटीकृतम् ॥३०० ।। तत्त्वज्ञानं विना नायं, विवेको मुक्तिकारणम् । तत्त्वदृष्टिं विना प्रोक्ता, तस्य निष्फलता ततः ॥३०१ ॥ कविभिः श्लाध्यते लक्ष्मी, विवेकसुभगीकृता । ततः प्रोक्तं यशोराशिं, भारती ते करिष्यति ॥३०२॥ विवेकी तत्त्वदर्शी च, विमर्शी च श्रियः पतिः । मान्यो वस्तुधिया धीरे-वस्त एवापरः पुनः ॥३०३ ॥ सत्यं च प्राच्यदृष्टान्तै-रन्यायाद्विनिवर्त्तनम् ।। लोभस्य चातिदुष्टत्वं, विवेकी वेत्ति भूपतिः ॥३०४ ।। भौगेकपात्रं धात्रीशा, विद्वांसस्तु कलाविदः । तत्को विज्ञान् विना राज्ञां, स्यादाय-व्ययचिन्तकः ॥३०५ ॥ विधत्ते वसुधेशानां, क: कला कोविदं विना । परीक्षणं गजादीनां, सङ्गीतादौ च कौशलम् ॥३०६ ।। कृत्याकृत्यार्थसम्मोह-व्यपोहप्रमुखागुणाः । विवेकिभ्यो विपश्चिद्भ्यो, भवेयुभूभुजां स्फुटम् ॥३०७॥
कथारत्नसागरे सुधीभ्यः शृणुतां शास्त्रं, शश्वद्विमृशतां तथा । श्रीमतां जायतेऽत्यन्तं, विवेकस्य प्रसन्नता ॥३०८ ॥ शास्त्रोक्ते सञ्चरन्मार्गे, विवेकी जगतीपतिः । राज्यश्रीजनकं धर्मं, प्रवर्द्धयति निश्चितम् ॥३०९ ।। शास्त्रवानुवर्ती च, विवेकी च महीपतिः । पूजोत्सवादिभिर्दैवं, सर्वज्ञमपि भूषयेत् ॥३१०॥ विद्वानपि च नि:श्रीको, दीनः कौपीनमात्रभृत् । श्रीमद्भिः प्रविशन् गेहे, चौरोऽयमिति शक्यते ॥३११॥ तथापि भोजनाद्यर्थचिन्ताविवशमानसः । मुक्तमानः स्थितो द्वारि, श्रीमद्भिः परिभूयते ॥३१२ ॥ धनेन रहितः सत्यं, विद्यावानपि मानवः । भार्यादिभिर्गृहे लोकै-बहिश्च परिभूयते ॥३१३॥ धिक् कलाकौशलं सर्व-मेतेषां ज्ञानिमानिनाम् । यदुपायान्तरैर्लक्ष्मी-मेतेऽर्जयितुमक्षमाः ॥३१४ ॥ मूर्खाणां श्रीमतां चाटु-काराः स्युरिति निन्दिताः । नि:स्वाः सन्तः कलावन्तः, कलामहिमघातकाः॥३१५ ॥(युग्मम्) ध्रुवं श्रीविभ्रमभ्रष्टै-नव्यसनिभिर्बुधैः । कुण्टोऽवबुध्यते वन्ध्य-प्रदानाऽवसरः करः ॥३१६॥ सञ्जाते विभवभ्रंशे, माने म्लानिमुपागते । मनस्विनः सुखाय स्यान्निवासो निर्जने वने ॥३१७ ॥ धनिभिर्धिक्कृतो धीमान्, धनाशाविवशीकृतः । स्तुवन्नपि भवेत्तेषां, दहनादपि दाहकः ॥३१८ ॥ विज्ञैरपि गतश्रीकै-र्दानधर्मबहिष्कृत । उपवासादिकष्टेन, धर्मोऽप्याराध्यते ध्रुवम् ॥३१९ ॥