________________
७०
तरङ्ग-९ : शारदासौहार्दम् ऊचे सुलोचना श्रेष्ठिन्, किमु ते कथयाम्यहम् । दोषाः खलु परो लक्षाः प्रत्यक्षा मे लघुस्वसुः ॥८४॥ इयं हि क्वचिदेकत्र, न स्थैर्येणाऽवतिष्ठते । न गुणान् गुणयत्युच्चै-र्न दोषानपि मुञ्चति ॥८५ ॥ शूरे दूरे परिहर-त्याश्रयत्यपि भीरुकम् । विदग्धं मन्यते दग्धं, धत्ते ग्राम्येऽपि काम्यताम् ॥८६॥ किञ्च प्रगल्भतां बिभ्र-त्यक्षमा कुरुते क्षमाम् । माईवं मर्दयत्युच्चै-र्न दोषादपि मुञ्चति ॥८७ ॥ चूर्णपेषं च सन्तोषं पिनष्टि क्षणमात्रतः । कृपामपाकरोत्येव, सत्यमत्या करोति च ॥८८॥ अपि दुह्यति मित्रेभ्यो, बन्धयत्यपि बान्धवाः । अपि त्रासयते पुत्रा-नपि स्वीकुरुते परान् ॥८९ ॥ सत्कारं चाटुकारेषु, विश्रम्भं दम्भशालिषु । बुद्धिवन्ध्येषु बन्धुत्वं, नीचेषु कुरुते रतिम् ॥१०॥ मामकीनं न नामापि, सहते हितजल्पितम् । दृष्टे मम मनुष्येऽपि, प्रज्वलन्त्यधिकं क्रुधा ॥११॥ किञ्चैषाऽत्यन्तरक्तानां, प्रवर्त्तयति पापिनी । परदारपरद्रव्य-परद्रोहेषु मानसम् ॥१२॥ श्रेष्ठिन् ! किमन्यदेतस्या दुश्चरित्रं प्रकाश्यते । या स्वस्य जनकस्यापि, प्रध्वंसायैव धावति ॥१३॥ विरतायामथैतस्या-मस्य भ्रूसञ्ज्ञया ततः । अभ्यधत्त सुभोगापि श्रेष्ठिन्नवहितं शृणु ॥१४॥ विरोधं विदधे नाह-मनया मातृतुल्यया । किं करोमि परं दुष्टै-भृष्टास्म्येतद्विचेष्टितैः ॥१५॥
कथारत्नसागरे न नाम वक्तुमेतस्या, दोषानेष मम क्रमः । परं यथार्थवादेन, दोषा वाच्या गुरोरपि ॥१६॥ भगिन्या मम यत् किञ्चि-द्रोषजातमुदीरितम् । एतस्या अपि तन्मध्यात्, किञ्चिन्मानं न पूर्यते ॥१७॥ लोकेषु शेमुषी दोषान्, पश्यत्यन्यस्य नात्मनः । परं हि वीक्ष्यते चक्षु-रात्मानं न मनागपि ॥१८॥ किञ्चैषा निखिलान्दोषान्, मदीयान् ज्ञानिमानिनी । सतो वाप्यसतो वाऽपि, प्रकाशयति सन्ततम् ॥१९॥ पटहोद्घोषणापूर्व, सर्वत्राप्ययशो मम । प्रकटीकुरुते यत्नात्, तिरोधत्ते यशः पुनः ॥१०० ।। मदीयेन प्रसादेन, समासादितवैभवम् । समस्तं वस्तुवत् किञ्च, लोकमालोकतेतराम् ॥१०१॥ परकीयानपि न्यायान्, युगान्तरकृतानपि । सभासु यत्र विन्यस्ता-न्नित्यं पिशुनयत्यसौ ॥१०२॥ किञ्चास्ति सागरो नाम, चिरं सहचरो मम । मदीयवृद्ध्या वर्धिष्णु-विजिष्णुर्भुवनत्रयम् ॥१०३ ॥ जगन्मान्यस्य तस्यापि, मूलोच्छेदविधित्सया । स्वेच्छया वैरिणी चेयं, कदाप्युत्तिष्ठतेतराम् ॥१०४॥ (युग्मम्) ब्रूमः किमीामेतस्याः, क्षणमप्यन्यचेतसम् । याऽसौ क्रूरा त्यजेद् दूरा-दाराधनपरं नरम् ॥१०५ ॥ किञ्च प्रौढिमहं प्राप्य, विकुर्वे वा न वा क्वचित् । अप्रौढैव त्वसौ बाढं, विगोपितवती न कम् ॥१०६॥ किमन्यन्नास्तिकप्रायः, प्राप्य सम्बन्धबन्धुताम् । न नाम मुनिभिर्मान्यं, मन्यते तातमप्यसौ ॥१०७॥