________________
तरङ्ग-६ भुवनचरित्रम्
जीर्णोद्धारे भुवनचरित्रम् तरङ्गः उद्धारं जैनभुवने, भुवनेनेव तन्वता । जातेनोद्धयते स्वात्मा, दुरन्तदुःरितोदधेः ॥१ ॥ काम्पील्यमितिनाम्नास्ति, नगरं भूविभूषणम् । यत्र सौधैर्विधीयन्ते, राकाः शाश्वतिकश्रियः ॥२ ॥ एकेनैवातपत्रेण, ध्वस्ततापः क्षितेरपि । तत्र चित्रचरित्रोऽभू-दरिमर्दनभूपतिः ॥३ ॥ यस्मिन् धनुर्कलाभ्यास-रसे शासति मेदिनीम् । जने जन्यमजन्यं च द्वयमप्राप्यतां गतम् ॥४ ॥ श्रेष्ठी च कुशलस्तत्र तत्प्रसादैकभूरभूत् । चत्वारस्तत्सुतास्तेषु कनिष्ठो भुवनाभिधः ॥५ ॥ वदान्यो जनतामान्यः, कृपावान् विनयी नयी । भक्तः सर्वेषु धर्मेषु, सक्तः पुण्येषु कर्मसु ॥६॥ दानव्यसनमत्यन्तं ततस्तस्याऽसहिष्णवः । भ्रातरः पुरतः पित्रोः, कथयन्ति स्म सव्यथम् ॥७॥ ऊचतुः पितरौ वत्साः !, स्वच्छन्दं किमिदं वचः ? | यदनल्पतपः प्राप्यं धनं दाननिबन्धनम् ॥८ ॥ पृथक्कुर्मस्तथाप्येनं, युष्माकमनुवर्तनात् । परं न ज्ञायते कस्य, पुण्यैर्वैभवसम्भवः ॥९ ॥ एकेनापि हि पुत्रेण, पवित्रगुणशालिना । सुरभीक्रियते गोत्रं, चन्दनेनेव काननम् ॥१०॥ न चैवं तातवचनैर्बबन्धुर्बन्धवो धृतिम् । बहुनामनुरोधाच्च तेनायं विदधे पृथक् ॥ ११ ॥ प्रभूतभागधेयोऽसौ भागधेयं तदर्पितम् । ताताऽऽग्रहेण जग्राह चकारैवं च चेतसि ॥ १२ ॥
-
६
३९
४०
कथारत्नसागरे
पितृश्रीर्भोगिता वक्ति, पुरुषे पौरुषक्षयम् । अकवित्वं यथा कर्तुः, परकाव्यसमुच्चयः ॥ १३ ॥ विस्रं हि मांसमासाद्य, सद्यो मद्यन्ति फेरवः । मनसापि स्पृशत्येतन्न केसरिकिशोरकः ॥ १४ ॥ तन्नियोज्यमिदं धर्म-कर्मणि द्रविणं मया । इति निश्चित्य सोत्कर्षं स ववर्ष दिवानिशम् ॥ १५ ॥ जीर्णं जिनेन्दोरन्येद्युः सद्म निश्छद्ममानसः ।
स पुनर्नवतां निन्ये, रसवेदीव देहिनम् ॥ १६ ॥ इति पात्रेषु निक्षिप्य निजद्रव्यमहर्दिवम् । सोऽर्कवद् वसुवृद्ध्यर्थ- मुदीचीमविशद्दिशम् ॥१७॥ अथासौ सिद्धपुत्रेण, पथसम्बन्धबन्धुना । कैलासोपत्यकां नीतः, तद्गुणप्रीतचेतसा ॥ १८ ॥ सिद्धपुत्रोऽप्यसौ कल्पं, कल्पयित्वा करस्थितम् । सहायीकृत्य भुवनं विवेश विवरान्तरम् ॥१९॥ यातावथ यथाकल्प - मुद्दामं दावपावकम् । अपनिद्रं च पारीन्द्रं वीक्ष्य चुक्षुभतुर्न तौ ॥२०॥ अथाग्रे ददृशे ताभ्यां रत्नसिंहासनासिनी । अन्याभिः सुरकन्याभिरन्विता सुरसुन्दरी ॥२१॥ समग्र स्वर्गललना- लावण्यद्रविणाकरः ।
स्रष्टुः सृष्टिकलाभ्यास-प्रकर्षस्यैकचूलिका ॥२२ ॥ युग्मम् । हृदयं सिद्धपुत्रस्य भ्रूभङ्गेण बिभेद सा । नतभ्रुवां हि भ्रूवल्ली, हस्तभल्ली मनोभुवः ॥२३॥ विवेश विवश: काम-मयं काममयं तमः । अपश्यदथ चात्मानं निरस्तं विवराद् बहिः ॥ २४ ॥ भुवनः पुनरक्षोभ्यः, तत्कटाक्षछटोर्मिभिः । व्रजन्नथ ददर्शाग्रे, वैभवोद्भासुरं सुरम् ॥२५॥