________________
१७
१८
तरङ्ग-३ : रोहिणीकथा
| शीलप्रभावे रोहिणीकथा तरङ्गः ३ । ।
दृष्टादृष्टफलं शील-लीलायितमहो महत् । रोहिण्या इव विश्वैक-चमत्काराय जायते ॥१॥ अस्ति पाटलिपुत्राख्यं, पुरं स्थिरविभूतिभिः । चयापचयवान् जिग्ये, नागरैर्यत्र सागरः ॥२॥ तत्र कोशेन वर्धिष्णुः, स्पर्धिष्णुविणेश्वरम् । भूमीन्दुनन्द इत्या-सीदासीभूताऽरिभूपतिः ॥३॥ तत्र सांयात्रिक श्रेष्ठः, श्रेष्ठी नाम्ना धनावहः । मूर्तो मन्त्र इवाकृष्टेः, समस्तद्वीपसम्पदाम् ॥४॥ अद्वैतवाद: सौभाग्यं, भाग्यसौन्दर्यसम्पदः । रोहिणीति प्रिया तस्य, शशाङ्कस्येव रोहिणी ॥५॥ द्वीपान्तरमथाऽगच्छ-दापृच्छ्य प्रेयसीमसौ । न हि श्रीर्जायते जाया-वदनेन्दुविलोकनैः ॥६॥ वेणिकञ्चुकबन्धेन, प्रीतिबन्धं विधाय सा । दिनानि यापयामास, निर्मलैर्धर्मकर्मभिः ॥७॥ दिवसान्तो वसन्तस्य, तारुण्यं तरणित्विषाम् । राजयक्ष्मा त्रियामानां, वासराणां रसायनम् ॥८॥ कल्पान्तः सरितामप्यथाऽदीर्घता दीर्घिकाम्भसाम् । वियुक्तवनिताभीष्मो, ग्रीष्मस्तत्रान्यदाभवत् ॥९॥ (युग्मम्) अथ ग्रीष्मर्तुसर्वस्व-निर्वेशरसलालसः । आरेभे गन्तुमुद्यानं, सानन्दो नन्दभूपतिः ॥१०॥ पुरमालोकयन्मार्गे, स्वच्छन्दं मेदिनीपतिः । ददर्श रोहिणी धर्मक्लान्तां वातायनस्थिताम् ॥११॥
कथारत्नसागरे चिरं विरहतन्वङ्गी, लावण्योल्लेखभूषणाम् । कलङ्कपङ्कविकलां, कलामिव कलावतः ॥१२॥ (युग्मम्) ततस्तदीयसौन्दर्य-वागुरागोचरं मनः । जघान तस्य पञ्चेषु-लुब्धकः पञ्चभिश्शरैः ॥१३॥ ततोऽसौ द्विगुणीभूत-सन्तापपापमानसः । उद्यानात्कथमप्यगान्, मन्दिरं मेदिनीश्वरः ॥१४॥ अथ कामतमश्छन्न-विवेकमयलोचनः । प्रगल्भां प्रेषयामास, दूी प्राभृतसम्भृताम् ॥१५॥ रोहिणीगृहमागत्य, ततः सापि सम्भ्रमम् । उवाच सुभगे ! देवः, प्रसन्नोऽद्य स्मरस्तव ॥१६॥ भाग्यैश्च फलितं देवि !, यदयं नन्दभूपतिः । कण्ठे मुक्तालतां कर्तुं, भवतीमीहते स्वयम् ॥१७॥ रूपसौभाग्यतारूण्य-पुण्यलावण्यवैभवम् । सफलं तव नन्देन, मन्देन वणिजा न तु ॥१८॥ इति श्रुत्वा वचस्तस्या-श्चिन्तयामास रोहिणी । अहो मोहमहीभर्तु-राज्ञा राज्ञामपि प्रभुः ॥१९॥ विहाय न्यायमप्युच्च-रनालोच्याऽमलं कुलम् । स्वकीयं च तदीयं च, मलिनीकर्तुमुद्यतः ॥२०॥ परं निरुद्धप्रसरे, स्मरे द्विगुणतां गते । अयमुत्सृज्यमर्यादां, बलात्कारं करिष्यति ॥२१॥ उपायेन तदेतस्य, प्रतीकार्यः स्मरज्वरः । इति निश्चित्य चित्ते सा, प्रत्यवोचत दूतिकाम् ॥२२॥
१. विवश्वन: -C