________________
कथारत्नसागरे
मदिरावतीकथा हृष्टस्तदैव दैवज्ञं, साक्षीकृत्य क्षितीश्वरः । तत्पाणिं ग्राहयामास, मुदितां मदिरावतीम् ॥२२॥ सूपकारीजरच्चीरखण्डानि परिधाप्य च । उवाच मत्पुरीं त्यक्त्वा, स्वकृतं कर्म भुज्यताम् ॥२३॥ अथ पौरेषु धिक्कार-हाहाकारपरेष्वपि । उभावपि पुरीद्वारे, मोचयामास पार्थिवः ॥२४॥ अजङ्गमाङ्गमप्येनं, जरत्तृणकुटीरके । कृपालुजनसाहाय्यात्, निन्ये शशिमुखी ततः ॥२५॥ विबुधैर्बुबुधे तत्र, द्वयं सीमागतं द्वयोः । धैर्यं च मदिरावत्याः , क्रौर्यं च जगतीपतेः ॥२६॥ जरद्भिर्युवभिश्चापि, भिन्नभिन्नान्तराशयैः । प्राज्यं भोज्यमुपानीतं, भेजे भर्तुरनन्तरम् ॥२७॥ पलालशय्यामारोप्य, तदन्तिकनिषेदुषी । भक्त्या शुश्रूषयामास, पतिं देवतवत्ततः ॥२८॥ दुस्थामवस्थामेतस्या, द्रष्टुमक्षमवत्तदा । द्वीपान्तरमुपागच्छन्, म्लानमूर्त्तिरहर्पतिः ॥२९॥ तम:प्रावारमावृत्य, सर्वतोऽपि दिगङ्गनाः । सम्भूय दुस्थितास्तस्थु-स्तदुःखेनैव दुःखिताः ॥३०॥ जाते रजन्यास्तारुण्ये, मूकीभूतेषु वर्त्मसु । साहङ्कारेऽन्धकारे च, शनैस्तामब्रवीत् पतिः ॥३१॥ भद्रे ! स्वकर्मनिर्माणं, मयि तावद्विवर्त्तते । एतत्कुतस्त्वदीयेन, जनकेन तु चेष्टितम् ? ॥३२॥
विनयातिक्रमः कोऽपि, सम्भवी न तवाकृतौ । अस्ति वा कुत्सितं जातं, 'भवेन्न जनकः पुनः ॥३३ ।। कुर्वन्नुर्वीश्वरः किञ्च, निर्विमर्शमितीदृशम् । त्वदीयैर्बन्धुभिः स्निग्धैः, जनन्या वा न वारितः ? ॥३४।। अपि स्वजनजातानां, सुतानां 'नृपतिः प्रिये ! । जामातुः कौतुकात्पाणि-पीडनानि वितन्वते ॥३५॥ किं वा विकल्पितैरेभिः, कृत्वा लोकोत्तरं पतिम् । अमीषामपराधस्य, मार्जने त्वमलन्तराम् ॥३६॥ दास्याय त्वामुपेष्यन्ति, स्वयमेव नृपात्मजाः । आलोकनाय किं लोक-मुपैति शशिनः कलाः ? ॥३७॥ भुञ्जानः साम्प्रतं चास्मिन् फलं प्राकृतकर्मणाम् । कदानुभोक्ष्ये दुष्कर्म, त्वद्विडम्बनतः कृतम् ॥३८॥ तन्मम प्रार्थनामेता-मन्त:सञ्चिन्त्य गम्यताम् । गच्छन्त्यास्तव साहाय्ये, निशीथः प्रथमः सखा ॥३९॥ अथ तूष्णीकतां याते, पत्यौ मापालबालिका । सावष्टम्भं ससंरम्भं, सधैर्य चाऽवदद्वचः ॥४०॥ न बन्धूनां न तातस्य, न मातुर्न च कश्चनः । किन्त्वेष दोषः प्राणेश !, मम प्राकृतकर्मणाम् ॥४१॥ देहिनां हि निजं कर्म, सुखदु:खविधौ विभुः । तन्नियोगिनिभः सोऽयं, दृश्यमानो जनः पुनः ॥४२॥ कारणेनामुनैवाह, विहिता तव किङ्करा । तत्तेन तत्कथङ्कारं, करोमि त्वद्वचोऽन्यथा ॥४३॥ १. भवेन्नु-प्रतौ पाठः ॥ २. नृपतिः प्रिया-||