________________
परिशिष्ट-३ सुभद्राकथा
दर्शयन्त्या मुनिं भाले, कालेयलवलाञ्छितम् । बुद्धदासं प्रसूमुख्या, प्राह पश्य वधूं सतीम् ॥ २१ ॥ अभिज्ञानादितो बुद्धवा, बुद्धदासोऽसतीति ताम् । पाषापणगभत्तस्यां जितात्मेव भवे स्थितौ ॥२२॥ दध्यौ चेत्सा विवेकिन्यप्येवमेषा व्यवस्यति । अनाथास्तद्गुणा ! यूयं वराका क्व नु यास्यथः ? ॥ २३ ॥ दर्शितप्रमाणमालोक्य, सुभद्रापि निजं पतिम् ।
निष्कलङ्का कलङ्काप्त्या, खिन्ना दध्याविदं हृदि ॥ २४ ॥ कषायविषयव्यग्र-मनस्सुगृहमेधिषु ।
मादृशेषु कलङ्को यः, स दुनोति न मे मनः ॥ २५ ॥ यस्तु शुद्धधुनीशुद्धे - प्यत्र श्रीजिनशासने । लग्नः कलङ्कपङ्कोऽयं, व्यथते सदृशां मनः ॥ २६ ॥ ध्यात्वेति गृह एवायं सायं श्रीमज्जिनेशितुः । अर्चामभ्यर्च्य भावेनेत्यभिजग्राह सद्गृहा ॥२७॥ इदं शासनमालिन्यं, न यावदुपशाम्यति । न पारयाम्यहं तावदुत्सर्गमधुना कृतम् ॥२८॥ जिनदत्तात्मजा देवीं, जिनशासनशासिनीम् । उद्दिश्य विदधे कायोत्सर्गमेकान्तभूतले ॥२९ ॥ स्थितवत्यास्ततः सत्या, कार्योत्सर्गेण तत्क्षणात् । पुरः प्रादुरभूद्देवी, शासनस्याधिदेवता ॥३०॥ उवाच च ततो देवी, वत्से त्वत्सत्त्वनोदिता । अहमभ्यागता किं ते वद कुर्वे समीहितम् ? ॥३१॥
१९५
कथारत्नसागरे
१९६
वन्दित्वा च सुभद्रा, तामिति प्रमुदिताऽवदत् । ममाप्यकलङ्कत्वं, देवि ! विज्ञापयाऽचिरात् ॥ ३२ ॥ देव्या निजगदे वत्से, मा खेदं वितथा हृदि । तव वाञ्छालतां प्रातः करोमि सफलामहम् ॥३३॥ उक्त्वेत्यन्तर्हिता देवी, सुभद्रा तु महासती । मुक्तोत्सर्गाऽक्षिपद्धर्मध्यानेनैतां विभावरीम् ॥३४ ॥ पुरी द्वारकपाटानि, नोद्घटन्ति कदाचन । कृष्यमाणानि सबलैरपि पुम्भिः प्रगे ततः ॥ ३५ ॥ चतुष्पदेषु क्रन्दत्सु, व्याकुले निखिले जने ।
इदं ही दैवतं किञ्चिदेवं निरधिनो (निर्णीतधीः ) नृपः ॥ ३६ ॥ शुचीभूय ततो भूपो, धूपोत्क्षेपपुरस्सरम् ।
प्राञ्जलिः प्राहः य कश्चिद्देवो वा दानवोऽथवा ॥ ३७ ॥ कुपितोऽस्ति प्रसादं स भगवान् भजतां मयि । एवं वदति भूपेऽभून्नभसि प्रकटं वचः ॥३८॥ इहास्ति या सती कापि चालन्या तन्तुबद्धया । जलमुद्धृत्य सा कूपात् कपाटैचुलुकैस्त्रिभिः ॥३९॥ अभिषिञ्चतु चेत्कार्यं पुरीद्वारैरपावृतैः । श्रुत्वेति प्रगुणा जाता - स्तदर्थे पौरयोषितः ॥ ४० ॥ ब्राह्मणी क्षत्रिया वैश्या, शूद्रीकापि न सा भवेत् । उद्धरन्त्यम्बुचालन्याऽनया वैलक्ष्यमाययौ ॥ ४१ ॥ सप्रश्रयं सुभद्राऽथ निजश्वश्रमभाषत । वीक्षे मातस्तदादेशात्, स्वमप्यहमिहाधुना ॥ ४२ ॥