________________
४
]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् [ग्रन्थकृतः पूर्वाचार्याः]
गौतमं तमहं वन्दे, यः श्रीवीरगिरं पुरा । अङ्गत्रयमयीं प्राप्य, सद्यश्चक्रे चतुर्गुणाम् ॥८॥ गुरुः श्रीहरिभद्रोऽयं, लेभेऽधिकवचस्थितिः । मोहद्रोहाय चारित्रनृपनाशीरवीरताम् ॥९॥ तमस्तोमच्छिदे स श्रीसिद्धसेनदिवाकरः । गगनं व्यानशे यस्य, कलापुष्टो यशःशशी ॥१०॥ हरिभद्रविभुर्विद्यास्थानकानि चतुर्दश । लब्ध्वा शतगुणान् जैनग्रन्थवृक्षानरोपयत् ॥११॥ राजा लुलोठ पादाग्रे, जिह्वाग्रे च सरस्वती । यस्य शश्वन्मुदे स श्रीहेमसूरिनवः शिवः ॥१२॥ नरचन्द्रमुनीन्द्रस्य, विश्वविद्यामयं महः । चतुरन्तधरित्रीशसभ्यैरभ्यर्चितं स्तुमः ॥१३॥ जीयाद् विजयसेनस्य, प्रभोः प्रातिभदर्पणः ।
प्रतिबिम्बितमात्मानं, यत्र पश्यति भारती ॥१४॥ [सङ्घमाहात्म्यम्]
व्याप्ताशेषहरिच्चतुर्मुखतया तन्वन्नदीनां स्थिति, स स्तुत्यः पुरुषोत्तमैकवसतिः श्रीसङ्घरत्नाकरः । यं संसेव्य घनाघना इव जिना धारालधर्मामृतै
विश्वाश्वासनहेतवः कति न तेऽभूवन भविष्यन्ति वा ? ॥१५॥ [ वस्तुपालमाहात्म्यम्]
गुर्वाशीर्वचसां फलं निरवधि श्रीसिद्धिसिद्धौषधिः, कीर्तिस्फूर्तिसुधासुधांशुरुदयद्दीप्रप्रभाभास्करः । मूर्तः पुण्यसमुच्चयो विजयते कोऽप्येष सङ्घाधिपः,
शङ्के यस्य विभात्यखण्डविभुतापाखण्डमाखण्डलः ॥१६॥ १. °नवृक्षावृक्षा° वता० ॥ २. द्वादशश्लोकानन्तरं खंता० पुस्तके श्लोकोऽयमधिक उपलभ्यते
तस्य श्रीवज्रसेनस्य, गौरवं ध्येयमीदृशम् । वृषप्रसविनी यस्य, गौरवन्धयेयमीक्ष( क्ष्य )ते ॥
15
D:\maha-k.pm5\2nd proof