________________
अष्टमः सर्गः]
[१८५ तद्वत् त्वमपि तन्नाथ !, ऋद्धिं प्राप्यापि दुर्लभाम् । अनुत्तरां श्रियं वाञ्छन्नपाये निपतिष्यसि ॥५९१।। ऊचे जम्बूकुमारोऽथ, समारोपितनिश्चयः ।
उत्पथप्रस्थितिं कुर्वे, नैवाहं वाजिराजवत् ॥५९२।। [वाजिराजाख्यानकम्]
श्रीवशंवदसौन्दर्य, श्रीवसन्तपुरं पुरम् । अस्ति क्षितिवधूहारतारप्राकारभासुरम् ॥५९३।। जितशत्रुर्नृपस्तत्र, सुत्रामप्रतिमः श्रिया । आसीद् दो:स्तम्भदम्भोलिलोलितापरभूमिभृत् ॥५९४॥ असौ यश:कुमारस्य, यदीयस्य विसर्पतः । बभौ नभ:पथोत्सङ्गे, शशी सहचरश्चिरम् ॥५९५।। अन्यदा स नृपोऽवादीद् , वाहरत्नपरीकान् । सर्वोत्कृष्टोऽस्ति मे वाजी, राज्ये कोऽपीति कथ्यताम् ॥५९६।। अथ ते गदिते राज्ञा, हयविद्याविदो हयम् । चकृषुः सैन्यतो वार्द्धरिन्द्रवाहमिवामराः ॥५९७।। भूपाय दर्शयामासुर्दशनीयममुं हयम् । ते पूर्णलक्षणं भानुरथाकृष्टमिवाष्टमम् ॥५९८॥ किञ्च विज्ञपयाञ्चक्रुस्ते महीशक्रमक्रमात् । वाहोऽयं यस्य राज्ये स्यान्न स जेयः परैरिति ॥५९९।। तदसौ वसुधाहार !, सुधाहारहयोपमः । रक्षणीयः प्रयत्नेन, सम्पूर्णाष्टाङ्गलक्षणः ॥६००॥ इत्याकर्ण्य गिरं तेषां, सविशेषां मुदं वहन् । किञ्चिद् विचिन्तयामास, हयन्यासकृते नृपः ॥६०१।। अथ दध्यौ नृपो योग्यं, जिनदासं वणिग्वरम् ।
भाति यद्यशसः शैलनाथः प्राथमकल्पिकः ॥६०२॥ १. 'तसम्मदः । उत्पथ खंता० ॥ २. °थात् कृ° खंता० पाता० ।।
20
25
D:\maha-k.pm5\2nd proof