________________
१८४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् कुटीरे याऽवसद् भग्ने, सौधे वसति साऽनिशम् । दधौ या चीवरं जीर्णं, दुकूलैः साऽनुकूल्यते ॥५७८॥ इत्थमालोक्य तां बुद्धिः, सिद्धि सिद्धोरुवैभवाम् । प्रीत्या रहसि पप्रच्छ, साकूतं कौतुकादिति ॥५७९॥ विशेषकम् ॥ कुलक्रमागतः स्वामी, दारिद्यं तावदावयोः । कुतो विभवपाथोधिजलदेवीव वर्तसे? ॥५८०।। अथ सा कथयामास, तुष्टो यक्षः स भोलिगः । दीनारद्वितयं दत्ते, समपन्नेत्राभमन्वहम् ॥५८१।। इति तस्य निशम्यासौ, वाचं निश्चित्य चेतसि । तमाराद्धवती यक्षं, बुद्धिर्भक्तिभरोत्तरा ॥५८२॥ तुष्टो जगाद यक्षोऽथ, किमु त्वं याचसीति ताम् । द्विगुणं सिद्धितो देयं, ममेत्येषाऽवदन्मुदा ॥५८३।। ददौ यक्षोऽन्वहं तस्यै, दीनाराँश्चतुरस्ततः । अथ सा प्रथते बुद्धिरपि सिद्धिरिवान्वहम् ॥५८४।। बुद्धेः सिद्धिमिति ज्ञात्वा, सिद्धयाऽऽराद्धः पुनर्ददौ । ततोऽपि द्विगुणं यक्षः, सेवाकृत्कल्पपादपः ॥५८५।। आराद्धस्तत् पुनर्बुद्धया, यक्षः प्रत्यक्षतां गतः । द्विगुणं कल्पयामास, प्रत्यहं सिद्धिऋद्धितः ।।५८६।। आराधयत् पुनः सिद्धिस्तं यक्षं क्रूरमानसा । किं ते ददामि ? तुष्टोऽस्मि, सोऽपि तामित्यभाषत ॥५८७।। सिद्ध्या तदूचे तच्चक्षुरेकं मे काणय प्रभो ! । तामेकचक्षुषं यक्षस्ततः कृत्वा तिरोदधे ॥५८८॥ बुद्ध्याऽथ पुनराराद्धो, यक्षः साक्षात् पुरोऽभवत् । निगदन् किं ददामीति, प्रीतिपूरवरं वरम् ? ॥५८९।। विधेहि द्विगुणं नाथ !, मम त्वं सिद्धिदानतः ।
तदाकर्ण्य विधायान्धां, बुद्धिं यक्षस्तिरोऽभवत् ॥५९०।। १. °थोधेर्जल° पाता० ॥ २. बुद्धिसि° पाता० ॥ ३. °मिमां ज्ञा खंता० पाता० ॥
15
20
25
D:\maha-k.pm5\2nd proof