________________
६०]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सेव्ये चन्द्रकुटुम्बेन, पद्मन्यक्कारभीरुणा । प्रभोर्नखमणिव्याजात् , पादपद्मे विराजतः ॥१३९।। भुजौ भातः प्रभोः श्राद्ध-साधुधर्मधरोद्धृतौ । भुजगेन्द्राविवोन्निद्रनखरत्नाङ्गलीफणौ ॥१४०।। अन्योन्यमुपमीयन्ते, करांहि-नयनादयः । प्रभोर्मुकुरबिम्बेषु , नाभृिहद्वदनादयः ॥१४१॥ कारुण्यशालितारुण्यचारुण्यङ्गे जगद्गुरुः । अपीप्यत द्युतिपयस्तृषितान् लोकदृग्मृगान् ॥१४२॥ बालकैलिरसोत्तालस्तालद्रुमतलेऽन्यदा । दारकः फलपातेन, कुतोऽपि मिथुनान्मृतः ॥१४३॥ अथान्यमिथुनैर्बाला, परासुपितृ-वल्लभा । जातरूपपसदृग्जातरूपश्री भयेऽर्पिता ॥१४४।। साऽपि शापच्युतेव श्रीनयनान्दकौमुदी । नन्दनीव सुनन्दाख्या, नाभिना साऽभिनन्दिता ॥१४५।। त्र्यशीतिं पूर्वलक्षाणि, यावद् भोगफलोदयम् । प्रभुः स्वस्यावधिज्ञानाजानन् शक्रकृतोत्सवः ॥१४६।। सुमङ्गला-सुनन्दे ते, रति-प्रीतिनिभे ततः । निरस्तदर्प-कन्दर्पचर्यः पर्यणयज्जिनः ॥१४७।। अधातपूर्णषट्पूर्वलक्षा कुक्षौ सुमङ्गला । तौ बाहु-पीठयोर्जीवौ, च्युतौ सर्वार्थसिद्धितः ॥१४८।। सुनन्दाऽपि कृतानन्दा, तदानीमुदरे दधौ । तौ सुबाहु-महापीठौ, तत एव दिवश्च्युतौ ॥१४९।। दृष्ट्वा चतुर्दश स्वप्नानथ देवी सुमङ्गला । स्वाम्युक्तचक्रिमातृत्वप्रीता युग्ममसूत सा ॥१५०॥ सुतो भरत इत्यस्या, ब्राह्मीति च सुताऽभवत् ।
सुनन्दा बाहुबलिनं, सुन्दरीमप्यजीजनत् ॥१५१॥ १. °क्षा गर्भे सुम खंता० पाता० ॥
20
D:\maha-k.pm5\2nd proof