________________
[५९
तृतीयः सर्गः]
अथ धाम्नि प्रभोः स्वर्ण-रत्न-वस्त्रा-ऽऽसनादिकम् । सारं सांसारिकं वस्तु , सर्वं श्रीदो न्यधापयत् ॥१२६॥ जिनस्य जिनमातुर्वा, योऽवद्यं चिन्तयिष्यति । तन्मूर्द्धा शतधा भावीत्युच्चैर्गिरमुदीर्य सः ॥१२७।। धात्रीकर्मप्रपञ्चाय, तत्पञ्चाप्सरसो हरिः ।
आदिदेश सदेशस्थाः , शश्वद् विश्वत्रयीगुरोः ॥१२८।। युग्मम् ।। $ सौधर्मेन्द्रस्तदाऽऽनन्दी, नन्दीश्वरवरं गतः ।
स्पष्टामष्टाह्निकामत्र, चक्रे शक्रास्तथाऽपरे ॥१२९।। परेऽपि सर्वे सर्वेषु , शाश्वतार्हतसद्मसु । यथाविधि महं कृत्वा, यथागतमगुः सुराः ॥१३०।। वृषभश्चिह्नमूरुस्थं, स्वप्ने प्राग् वृषभोऽप्यभूत् । प्रभोर्ऋषभ इत्याख्यां, चक्रतुः पितरौ ततः ॥१३१।। बाल्यस्थः पाल्यमानोऽथ, सुरस्त्रीभिः स पञ्चभिः । दधौ वृद्धि समितिभिः, साक्षात् संयमवत् प्रभुः ॥१३२॥ तद्युग्मजन्मधन्यायाः, कन्याया नाम चक्रतुः । सुमङ्गलेति सम्प्रीतौ, नितरां पितरावथ ॥१३३।। वत्सरे स्वामिनः पूर्णे, जनकोत्सङ्गसङ्गिनः । सौधर्मेन्द्रोऽन्वयस्थित्यै, सेक्षुयष्टिः पुरोऽभ्यगात् ॥१३४।। प्रभु तेन्द्रसङ्कल्पो, जग्राहेक्षुलतां च ताम् । इक्ष्वाकुसझं कृत्वेति, वंशं भर्तुर्ययौ हरिः ॥१३५॥ विभुरभ्यागतैर्देवैरेव रम्यमरम्यत । नित्यमत्यद्भुतानेकरूपनिर्माणकर्मठैः ॥१३६।। प्राप्य प्रभुरथाङ्गुष्ठपानावस्थातिगं वयः । अप्रीयत फलैर्दिव्यैस्तैरुत्तरकुरुद्भवैः ॥१३७।। स्वामी क्रमात् प्रवद्धिष्णुः, स्पर्धिष्णुः कल्पपादपम् ।
सौभाग्यरूपभूपालभवनं यौवनं ययौ ॥१३८।। १. 'ष्टाम वतासं० ॥
D:\maha-k.pm5\2nd proof