________________
[५७
10
तृतीयः सर्गः]
दत्त्वाऽवस्वापिनी देव्याः, प्रतिच्छन्दं जगत्पतेः । स्थापयित्वा तदन्ते च, पञ्चमूर्तिर्बभूव सः ॥१००। एक: पुरः सुरस्वामी, भुवनस्वामिनं न्यधात् । गोशीर्षचन्दनामोदशस्ते हस्ताम्बुजद्वये ॥१०१।। छत्रमत्र दधारैकश्चामरे परितोऽप्युभौ । एको वेत्रीव निर्दम्भो, दम्भोलि पुरतो हरिः ॥१०२।। रङ्को रत्नमिवासाद्य, माद्यन्नृभुविभुः स्वयम् । निधाय हृदये यत्नादगमन्मेरुमूर्द्धनि ॥१०३।। शिलया पाण्डकवने, पाण्डुकम्बलया धृतम् । अध्यास्त वासवः स्नात्रपीठमुत्सङ्गितप्रभुः ॥१०४।। अस्मिन् महे महाघोषाघण्टानिर्घोषबोधिताः । इन्द्रास्त्रिषष्टिराजग्मुरपरे सपरिच्छदाः ॥१०५॥ अच्युतेन्द्रोऽथ सौवर्णान् , रौप्यान् मणिमयानपि । हेमरूंप्य-हेमरत्न-रत्नरूप्यमयानपि ॥१०६॥ हेमरूंप्यमणिमयान् , भौमाँश्च कलशान् सुरैः । अष्टोत्तरसहस्रं स, तान् प्रत्येकमचीकरत् ॥१०७॥ कुम्भवत् पात्रिका-रत्नकरण्ड-स्थाल-दर्पणान् । भृङ्गार-पुष्पचङ्गेरी-सुप्रतिष्ठानकारयत् ।।१०८।। धीरोद-पुष्करोदाभ्यामम्भः साम्भोरुहं तदा । समृत्स्नं चान्यतीर्थेभ्यो, भरतैरावतादिषु ॥१०९॥ आनिन्यिरे पद्महुदात् , किञ्चित् क्षुद्रहिमाद्रितः । तुवरौषध-सिद्धार्थ-कुसुमानि च ते सुराः ॥११०।। नन्दनात् पाण्डकाद् भद्रशालात् सौमनसाच्च ते । गन्धद्रव्याण्युपानीय, पानीयान्तर्निचिक्षिपुः ॥१११।। कुम्भानम्भोभिरापूर्य, स्फूर्जत्तूर्यरवोर्जितम् ।
क्षिप्त्वा पुष्पाञ्जलीन् शक्राः, स्नात्रमासूत्रयन् विभोः ॥११२॥ १. भुः प्रभुम् खंता० पाता ॥ २-३-४. "रौप्य' खंता० ॥
20
25
D:\maha-k.pm5\2nd proof