________________
10
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पर्वतायुर्भवेत्युक्त्वा, कर्णाभ्यणे जिनस्य ताः । स्फारमास्फालयामासुराशु पाषाणगोलकौ ॥८७।। अथो जिनं जिनाम्बां च, नीत्वा सूतिनिकेतने । मुदा तल्पे समारोप्य, गायन्त्यस्तस्थुरन्तिके ॥८८।। नेदुर्दिवि तदा घण्टाश्चकम्पे वासवासनैः । अहो ! किमिदमित्येवमासदद् धुसदां भयम् ॥८९।। क्रुद्धो बद्धोद्यमः पूर्वं, शक्रो विक्रमकेशरी । सावधानोऽवधिज्ञानाज्ज्ञात्वा जन्म जगद्गुरोः ।।९०।। कोपाटोपं समुत्सृज्य, मुक्तसिंहासनस्ततः । प्राग्मिथ्यादुःकृतं दत्त्वा, नत्वा च त्रिजगद्गुरुम् ॥९१।। समं समस्तैर्गीर्वाणैर्विधित्सुर्जिनमज्जनम् । आदिदेश सुराधीशः, सेनान्यं नैगमेषिणम् ॥९२॥ विशेषकम् ।। तद्वादितसुघोषाख्यघण्टया सह सर्वतः । नादाद् विमानघण्टानामधावन्त सुधाभुजः ॥९३।। पञ्चयोजनशत्युच्चं, लक्षयोजनविस्तृतम् । पालकः पालकं यानं, चक्रे शक्रनिदेशतः ॥९४॥ महिषीभिः सहामात्यैः, साकं नाकेश्वरस्ततः । भेजे विमानं व्योमेव, विधुस्तारा-ग्रहान्वितः ॥९५।। अथ नन्दीश्वरद्वीपे, गत्वा रतिकरे गिरौ । विमानं तत्र सङ्क्षिप्य, प्राप्तो जिनजनेर्गृहम् ॥९६।। प्रदक्षिणिततीर्थेशसौधः सौधर्मनायकः । तद्विमानमुदक्प्राच्यां, संस्थाप्य प्रभुमभ्यगात् ॥९७।। दृष्टमात्रं जिनं मात्रा, समं नत्वा सुरेश्वरः । त्रैधं प्रदक्षिणीकृत्य, कृत्यवित् प्रणनाम च ॥९८॥ मुदाऽथ धुसदांनाथः, प्राह सोत्साहमानसः ।
मरुदेव्याः पुरो जन्ममहिम्ने स्वं समागतम् ॥९९।। १. कृतं कृत्वा, न खंता० पाता० ॥ २. "हावृतः खंता० पाता० ॥
20
25
D:\maha-k.pm5\2nd proof