________________
प्रस्तावना
___ॐ अहँ ॥ विदितमेतज्जिनशासने द्रव्यानुयोग-गणितानुयोग-चरणकरणानुयोग-धर्मकथानुयोगाभिधानुयोगचतुष्टयम् । तत्रापि सद्धर्मावाप्तौ धर्मकथानुयोग एव प्रायः सर्वभव्यजीवोपकारकः सर्वतीर्थकराणामपि देशनादौ तथाप्रवृत्तत्वात् , धर्मकथानुयोग एव च शेषानुयोगत्रिकस्यापि तत्तत्प्रसङ्गानुसारतस्तत्तत्स्थाने सरलतया प्रदशितत्वात् । अत एव प्रचुरतरा ग्रन्था एतद्विषयाः प्रभूततरैराचार्यवर्यैर्ग्रथिता दरीदृश्यन्ते, तेषु चायमेकतमो धर्मकल्पद्रुमनामा विरचितं आगमगच्छविभूषणैः श्रीउदयधर्मगणिभिः । पूज्याश्चैते कदा कुत्र चेमं निर्मितवन्तः कांस्कांश्चान्यानित्यादि किं जन्मभूम्यादि चेति जिज्ञासव एव वयं नोपलब्धवन्त इह प्रशस्त्यभावादन्यत्र तददृष्टत्वाच्च, अल्पतरा गुरुपरम्परा च ग्रन्थान्ते तैरेव लिखितत्वाज्झायत एवेति ।
सान्वर्थस्यास्य धर्मकल्पद्रुमस्य चतस्रः शाखा अष्टौ पल्लवाश्च वर्तन्ते । तत्रादौ ग्रन्थारम्भे प्रथमपल्लवे श्रीआदिनाथ-शान्ति-नेमिपार्श्व-वीराणामन्येषां च तीर्थकृतां गौतमगणधरस्य वाग्देव्याश्च स्मरणादिपुरस्सरं मङ्गलं कृत्वा धर्मस्य माहात्म्यं मिथ्याधर्मस्य चानुपादेयत्वं विस्तरेण दर्शितम् । दानादिधर्मस्य पुष्ट्यर्थं प्रतिपल्लवं प्रासङ्गिककथानकानि स्थाने स्थाने स्वपरसमयोक्तसुभाषितश्लोकाश्च प्रभूततरा लिखिताः प्राकृतकाव्यानि भाषाकाव्यान्यपि च । प्रतिपल्लवं चादौ सङ्क्षिप्तमङ्गलमपि कृतमस्ति । दानादिस्वस्वशाखावर्णनप्रसङ्गे तत्तद्धर्म एकान्तहितसाधकत्वेन दृढीकृतः तत्र दानधर्माभिधा प्रथमशाखा पल्लवत्रयेण विस्तृता । शीलधर्मनाम्नी द्वितीयशाखा चतुर्थपञ्चमपल्लवाभ्यां पल्लविता । तपोधर्माख्यतृतीयशाखायां एक एव षष्ठ पल्लवः, भावनाधर्माभिधचतुर्थशाखायां च सप्तमाष्टौ पल्लवी रचितौ । चतुर्वपि धर्मेषु चतस्रो मुख्यकथा अवान्तरप्रसाङ्गिककथासहिताः कथिताः, ताश्चानुक्रमणिकातो ज्ञेयाः ।
यद्यप्यस्मिन् ग्रन्थे नास्ति कोऽपि प्रधानो रसो धर्मरसं विना, नास्ति तादृशोऽलङ्कारगणो नास्ति च तादृशो वर्णनाधिकार: काठिन्यचमत्कृतियुतस्थापि सरलभाषया कथारसो धर्मरसश्चैव तादृशः पोषितो येन संस्कृतभाषाभ्यासिनां धर्मजिज्ञासूनां चायं ग्रन्थो महोपकारी स्यादिति निश्चयः ।
अयं ग्रन्थः पुरा विक्रमार्क १९७३ वर्षे 'गुजराती' मुद्रणालये श्रेष्ठि श्रीदेवचन्द्र लालभाई जैन पुस्तकोद्धारसंस्थया मुद्रापितः, तथापि तस्मिन् सत्साधनाभावेन स्थाने स्थाने बहवः स्खलना दृष्ट्वा श्री विजयधर्मसूरीश्वरशिष्येण पन्न्यासश्रीभक्तिविजयेन किञ्चिच्छुद्धतरं लिखितपुस्तकं मेलयित्वा तच्छुद्धिविषये शास्त्री जेठालालशर्मणा यत्नः कारितस्तथापि क्वचित् एकद्व्यादिका स्खलनाशुद्धिः साधनाभावादेव न जातेति मन्यामहे, मन्महे च क्वचिद् ग्रन्थकर्तृस्खलनाशङ्काम् । तथा च मुद्रणालयस्य प्रूफवाचकस्य च प्रमादादिना सम्भवेत् स्खलना । तत्सर्वं विद्वद्भिः सद्भिः क्षमाधनैः शोधयित्वा ज्ञापनीयं, यथा पुनरावृत्तिसमये दत्तावधाना भवेम । इति शम् ॥
संवत् १९८४ कार्तिकी पूर्णिमा-श्री जैनधर्मप्रसारक सभा,-भावनगर.