________________
धर्मकल्पद्रुमस्योपोद्घातः
श्रीगणधरेन्द्रो विजयतेतराम् ।
ग्रन्थोऽयं वाचनाय यथायोगं श्रद्धाशुद्धये च समर्प्यते सदसद्विवेचकानां विचक्षणानां, ज्ञापितं चात्र सप्रसङ्गं दानशीलतपोभावानां शाखाभिरुपमितानां सोदाहरणं माहात्म्यं धर्मकल्पद्रुमाभिधाने वाङ्मये ग्रन्थकर्ता, यद्यपि ग्रन्थकृदयमागमिकाभिधमतान्तःपाती तथापि नात्र तथाविधमुदाहृतं भव्यानां श्रद्धाबाधाविधायि न चात्र रचनाकौशलमलङ्कारादिचमत्कृतिर्वा, अनेकत्र ग्राम्योक्तिः प्रचुरतया पूरिता, तथापि वालानामल्पसंस्कृतबुद्धीनां मनोरथपूत्यै भवितेति विमृश्यारब्धो मुद्रितं श्रीमन्मोहनलालजीपुस्तकालयाद् गृहीत्वाऽशुद्धतमं एतद्भाण्डागारीयनियुक्तेन लिखितः श्रीमल्ललितविजयाख्येन मुनिवर्येण शोधितुमारब्धो मया सम्पूर्तिमानीतः अशुद्धतमाभ्यां प्रतिभ्यां संमील्य षट्पत्रीणां कासाञ्चिदन्त्यानामवलोकनेन, आलोक्य भद्रा अवाप्नुवन्तु भद्रं भद्रश्रद्धानाः यथायथं गुणग्रहणोद्यताः, ग्रन्थकर्तुस्तथाप्रसिद्ध्यभावात् तच्छाखायाः प्राग्ग्रन्थेषु जैनतत्त्वादर्श च प्रतिपादनात् प्रतिपादने च दोषपोषसम्भावनासम्भवात् विरम्यते, केवलमेतदर्थयतेऽयं जनो यदुतास्थाय सर्वज्ञोक्तमवितथं मतं यतन्तां यतायता जना निःश्रयेसायामुपश्रुत्येति शमभिलाषुकः श्रीश्रमणसङ्घभट्टारकस्य किङ्कर आनन्दः श्रीकर्या त्रिसप्तत्यधिकै कानविंशे (विक्रमार्क १९७३) शते मार्गशीर्षशुक्लत्रयोदश्याम् छायापुर्याम् लिखति ॥
संवत् १९७३-श्रेष्ठिदेवचन्द्र लालभाई जैनपुस्तकोद्धारसंस्था