________________
विषयाः २ यस्मादस्पृष्टाः परमाण्वादयोऽवधिज्ञानप्रत्यक्षविषया भवन्ति तस्मादवधिज्ञाने दर्शनशब्दोऽप्युपयुक्तः, दर्शनलक्षणे सांव्यवहारिकप्रत्यक्षपारमार्थिकप्रत्यक्षसाधारणप्रत्यक्षत्वावच्छिन्नं प्रविष्टमित्यर्थः ।
____ २४६-१ ३०-१ अवधिज्ञान इच केवलज्ञानेऽप्युक्तलक्षणमब्याहनमित्यावेदकतया 'जं अपुढे भावे' इति त्रिंशत्तमगाथाऽवतारिता ।
___ २४६-११ २ यस्मात् अस्पृष्टान् भावान् नियमात् केवली जानाति पश्यति च, तस्मात्तज्ज्ञानं ।
दर्शनश्चोभयरूपमविशेषतः सिद्धम् , एतद्भावार्थश्च दर्शितः । २४६-१५ ३ ज्ञानबिन्दौ मनापर्यायज्ञानस्य दर्शनत्वाभावनिष्टकनमऽत्रावेदितम् , तद्भावश्च दर्शितः ।
२४६-२३ ३१-१ च्यात्मक एक एव केवलोपयोग इति फलितस्य स्वमतस्य निगमनपरतया "साई अपअवसियं" इत्येकत्रिंशत्तमगाथाऽवतारिता ।
२४७-७ २ पूर्वोक्तनीत्या केवलावबोधो द्वयात्मक एक एवेत्यभ्युपगमे स्वसमयः, अन्यथा
परसमयः इति तात्पर्यार्थमुपदर्याभयसरिकृतोऽर्थ आवेदितः। २४७-१० ३२-१ भावतो जिनोक्ताखिलतत्वविषयकसमूहालम्बनश्रद्धानलक्षणसम्यग्दर्शनमपि
मतिज्ञानस्यैवापायांशरूपमेव, पृथग्विभागादिप्रक्रिया गोवृषन्यायात् , सभ्यग्दर्शनत्वं जातिविशेषो विषयताविशेषोवा, तदवच्छिन्ने दर्शनावरणक्षयोपशमानामेकशक्तिमत्वादिना हेतुत्वमिति ज्ञानावरणविशेष एव दर्शनावरणमित्यभि
प्रायकतया "एवं जिणपण्णत्ते' इति द्वात्रिंशत्तमगाथावतारिता तदर्थव दर्शितः।२४७-२० ३३-१ यस्मिन् रुचिरूपं दर्शनं तस्मिन् सम्यग्ज्ञानमस्ति न वेत्याशङ्कानि
वृत्तिपरतया "सम्मन्नाणे णियमेण" इति त्रयस्त्रिंशत्तमगाथाऽवतारिता। २४८-४ २ सम्यग्ज्ञाने नियमेन सम्यग्दर्शनं, दर्शने तु विकल्पनीयं सम्यग्ज्ञानं, सम्यग्ज्ञानं
सम्यग्दर्शनश्वार्थापत्तिसिद्धम् , यद्वा सामर्थ्यादेकमेवोपपन्नं भवतीत्यर्थों दर्शितः। २४८-९ ३४-१ केवलज्ञानावरणक्षयकारणादुपजायमानत्वात्सादि केवलज्ञानं, पुनरुत्पादरिना
शानात्मकत्वादपर्यवसितं तदित्येतन्मतनिरासपरतया "केवलणाणं साई" इति चतुस्त्रिंशत्तमगाथाऽवतारिता।
२४८-२१ २ केवलज्ञानं साद्यपर्यवसितं सूत्रे दर्शितमित्येतावन्मात्रेण गर्विताः केचन सन्तमपि पर्यवसितत्वादिकं नाभ्युपगच्छन्ति, न सम्यग्वादिनस्ते इत्यर्थः । २४८-२९
"Aho Shrutgyanam"