________________
विषयां:
भयविषयकैकोपयोगरूपत्वादुभयात्मकमेकमेव, "केवलनाणे केवलदंसणे" इति raft धर्मभेदेन धर्मिभेदप्रतिपादनपरमेव, न तु वस्तुगत्या धर्मिभेदप्रतिपादनपरमित्यर्थो भावश्च दर्शितः ।
२०- १ सूत्रे उभयरूपत्वेन परिपठितत्वादुभयरूपं केवलं, न तु क्रमिकसामग्रया क्रमेणोत्पादात् एककालीन भिन्न सामग्रया युगपदुत्पादाद्वा तथेत्युपदर्शकतया विंशतितमगाथाऽवतारिता ।
पृ० पि
२४०–७
"Aho Shrutgyanam"
२४०-२०
२ ' अचक्खुअवाहिकेवलाण' इति गाथार्थः, चक्षुरचक्षुरवधिकेवलानां 'कइ विणं भंते' इत्यादिसूत्रेण आगमे दर्शनविकल्पाः परिपठिताः, तस्मात्केवलज्ञानदर्शने ते भिन्ने इति, केवलं ज्ञानमध्ये पाठात् ज्ञानमपि, दर्शनमध्ये पाठाच्च दर्शनमपीत्येकमेव तत्पदेन व्यवहार्यमिति परिभाषामात्रमेतत् । २१- १ सामान्यविशेषाजहद्वृत्त्ये कोपयोगरूपतया ज्ञानत्वं दर्शनत्वं चेत्येकदेशिमतोपदर्शकतया "दंसणमुग्गहमेत्तं' इत्येकविंशतितमगाथाऽवतारिता । २ दर्शनमवग्रहमात्र, घटोऽयमित्याकाराभिलापो ज्ञानं भवत्युपचारात्, यथा मतिज्ञाने, तथा केवलयोरपि, एतावन्मात्रेण तु विशेषः, एकमेव केवलं सामान्यांशे दर्शनं विशेषांशे च ज्ञानमित्यर्थो दर्शितः ।
२२-१ एकदेशिनः क्रमिक भेदपक्षदूषकत्वपरा " दंसणपुब्वं नाणं " इति द्वाविंशति
तमा गाथा ।
२ दर्शनं प्राक् पश्चाज्ज्ञानमित्येवं पूर्वापरीभावश्छा अस्थिकोपयोगावस्थायां भवति, न चायं क्रमः केवल्युपयोगावस्थायां तत्र पूर्व केवलज्ञानस्यैव भावात्, ज्ञाननिमित्तकं तु दर्शनं कुत्रापि नास्ति, तेन सुविनिश्विनुमः केवलिनि ज्ञानदर्शने क्रमापादितभेदं न भजत इत्यर्थो दर्शितः । २३ - १ मतिरूपे बोधे अवग्रहमात्र दर्शनमित्येकदेशिमताऽयुक्तत्वपरतया "जइ ओग्गहमेत्तं" इति त्रयोविंशतितमगाथाऽवतारिता ।
२ यदि मत्यवबोधे अवग्रहमात्रं दर्शनमिति विशेषितं ज्ञानमित्युपगम्यते एवं सति मतिज्ञानमेव दर्शनं प्राप्तं भवति, तथोपगमे "कइविणं भंते" इत्यादि प्रज्ञापनैकोनत्रिंशत्तमेोपयोगाख्यपदाद्यसूत्रविरोधः प्रसक्त इत्यर्थः । ३ मतिज्ञानमेवावग्रहात्मना दर्शनम्, अपायात्मना च ज्ञानमित्येकदेशिमतदूषणपरत्वेनोक्तगाथाया अवतरणान्तरम् ।
२४०-२५
२४१–४
२४१–९
२४१-१८
२४१-२१
२४२–७
२४२-१०
२४२-२२