________________
५७ अङ्काः
विषयाः ३ केवलदर्शने गौणवृत्त्या सकलव्यक्तिभानं केवलज्ञाने गौणवृत्त्या सकलजातिभा- .
नमादायोक्तवचन विकल्पोपपादने छमस्थेऽपि तथा प्रयोगप्रसङ्ग आवेदितः । २३०-१३ १३-१ उक्तपक्षद्वये अज्ञातदर्शित्वाददृष्टज्ञातृत्वाच भगवतः सर्वज्ञत्वं न संभवतीत्यावे
दिका "अण्णाणं पासंतो" इति त्रयोदशी गाथा ।। ___२३०-१८ २ अज्ञातं पश्यन् अदृष्टश्च जानानोऽर्हन् किं जानाति १ न किञ्चिजानाति,
किं पश्यति ? न किञ्चित्पश्यतीति कथं सर्वज्ञता तस्य भवेत् ? न कथमपीत्यर्थ आवेदितः ।
२३०-२१ १४-१ उक्तोपयोगयोरन्यूनानधिकसंख्यकविषयकत्वेनाप्येकत्वमित्यावेदिका "केवलनाणमणत" इति चतुर्दशी गाथा ।
२३१--३ २ केवलज्ञानं यथाऽनन्तार्थविषयकत्वादनन्तं तथा दर्शनमप्यनन्तं प्रज्ञसम् , तयोरेकत्वाभावे दर्शनस्याल्पविषयकत्वादनन्तत्व नस्यात् , तथा च "अणंते केवलनाणे
अणते केवलदसणे" इत्याद्यागमविरोध इत्याद्यर्थ उपपादितः। २३१--६ १५-१ क्रमवादिनोऽमेदवाद्युक्तदूषणसमाधानस्याभेदवादिप्रतिविहितसमाधानपरतया "भण्णइ जह चउनाणी" इति पञ्चदशी गाथाऽवतारिता ।
२३१-२२ २ उक्तगाथार्थः, तत्र मत्यादिज्ञानानां क्रमेणैव प्रवृत्तिन तु युगपत् , लब्धिमात्रमङ्गी
कृत्य समकालं मतिश्रुते प्रोच्येते, न तूपयोगमित्यतस्तेषामुपयोगतः क्रमप्रवृत्तावऽपि तल्लन्धिभावाच्चतुर्ज्ञानी युज्यते, तत्र “जे चउनाणी" इत्याद्यागमः । २३१-२७ ३ मत्यादिज्ञानानां लब्धिरूपत्वे तदपेक्षया योगपद्ये च "नाणलद्धीणं भंते"
इत्याद्यागमः प्रमाणतयाऽभिहितः । ४ शङ्कान्तरमपाकृत्य स्वस्त्रयोग्यार्थविषयकज्ञानानुकूलशक्त्यपरनामलब्ध्यपेक्षयर
मतिज्ञानादिचतुष्टयस्यैककालावच्छिन्नस्वभिन्नज्ञानसामानाधिकरण्यलक्षणं योगपद्यमिति निगमितम् । अत्र "एकादीन्येकस्मिन् भाज्यानि त्वाचतुभ्यः" इति तत्त्वार्थसूत्रसङ्गमनश्च ।
२३२-२८ ५ केवलज्ञानदर्शनयोः क्रमप्रवृत्तावपि सार्वदिकतच्छक्तिसमन्वयादपर्यवसितत्वं, ततो ज्ञातदृष्टभाषित्वं केवलिन उपपद्यत इति क्रमोपयोगवादिनः।
२३३-१ ६ तत्रैकोपयोगवादिनः प्रतिविधान-छामस्थिके ज्ञाने नष्टे सति केवलज्ञानमुत्पद्यत इति न पञ्चज्ञानी यथैवाहन तथा भिन्नसामयिककेवलदर्शनकेवलज्ञानवान् न स इति क्रमिकपक्षोऽपि न युक्तः । अत्र "नटुम्मीति" प्रमाणं दर्शितम् । २३३-३
२३२-१०
"Aho Shrutgyanam"