________________
४९ विषयाः
पृ० पति ४३ ज्ञानस्य कथञ्चिद्भेदस्वीकारेणैकस्य ज्ञानस्य व्यवसायानुव्यवसायोमयाकार-. त्वोपपादनेन पराशङ्कापनोदनम् ।
२०४-१३ ४४ परापादितान्योन्याश्रयापाकरणेन स्वविषयत्वलक्षणं स्वप्रकाशकत्वं स्थिरीकृतम् । २०४-२४ ४५ स्वेनैव स्वस्य प्रकाश इत्येवं स्वप्रकाशात्मकं ज्ञानं "स्वस्य व्यवसायः" इत्या
दिदेवसरिसूत्रानुमोदितं जैनमतं न युक्तं, स्वात्मनि क्रियाविरोधादिति पाप्रश्नः परोपगतस्वप्रकाशेश्वरज्ञानाद्युपदर्शनेनापाकृतः ।।
२०५-२ ४६ एकस्मिन् ज्ञाने कर्मत्वकर्तृत्वक्रियात्वैतत्रितयभानासम्भवात्रिपुटीप्रत्यक्षासम्भ
वात्स्वसंवेदनज्ञानाऽसिद्धिरिति पराकूतनिरसनमाश्रयत्वरूपकर्तृत्वविषयत्वरूपकर्मत्व विशेषणीभूतज्ञानत्वलक्षणक्रियात्वानां भानोपपादनेन ।
२०५-११ ४७ विशिष्टवुद्धिम्प्रति विशेषणज्ञानस्य कारणत्वेन ज्ञानरूपविशेषणज्ञानाभावाद्विशेष
णतया ज्ञानस्य भानं कथं स्यादित्याशङ्कां समानवित्तिवेद्यभिन्न विशेषणज्ञानत्वेनैव विशिष्टबुद्धिम्प्रति कारणत्वमित्यनेनापाकृता।।
२०५-१७ ४८ ज्ञानं विनाऽपि सुखादिविशिष्टतयाऽऽत्मज्ञानाज्ज्ञानं न समानवित्तिवेद्यमित्याशङ्काया अपाकरणम् ।
२०५-२३ ४९ अर्थनिश्चयत्वेन ज्ञानस्य प्रवर्तकत्वादर्यविषयकत्वमेवाभ्युपगमाई, न स्वविषयकत्वमिति प्रश्नप्रतिविधानम् ।
२०५-२५ ५० प्रत्यक्षविषयत्वं प्रत्यक्षजनकत्वव्याप्तमित्यनुव्यवसायात्मकप्रत्यक्षाजनके व्यवसाये
तत्प्रत्यक्षविषयत्वं न सम्भवतीति प्रश्नस्य व्यभिचाराग्निरुक्तव्याप्त्यपाकरणेन प्रतिविधानम् ।
२०५-३० ५१ इन्द्रियसनिकर्पोत्पन्नं प्रत्यक्षमिति व्यवसायात्मकज्ञानेन सहेन्द्रियसन्निकर्षा
भावात्कथं तत्प्रत्यक्षमिति प्रश्नस्य चक्षुषोप्राप्यकारित्वेन तत्सन्निकर्ष विनैव चाक्षुषप्रत्यक्षस्य भावेन तत्राव्याप्त्येन्द्रियसनिकर्षोत्पनं ज्ञानं प्रत्यक्षमिति तल्लक्षणं
न सम्भवतीति प्रतिविधानम् । ५२ चक्षुषोऽप्राप्यकारित्वसाधकमनुमानम्, चक्षुषोऽसन्निकृष्टार्थप्रत्यक्षजनकत्वे
प्रत्यक्षस्य प्रतिनियतविषयत्वं न स्यादतस्तस्य प्राप्यकारित्वमुपेयमित्यभिप्रायकस्य नैयायिकमनस्य प्रतिविधानम् , तत्तत्प्रतिनियतविषयत्वे स्वावरणकर्मक्षयोपशमादिलक्षणयोग्यतायास्तन्त्रत्वोपदर्शनेन ।
। २०६८ ५३ ज्ञानस्यार्थाजन्यत्वे तदनाकारत्वे च प्रतिकर्मव्यवस्था न स्यादित्यर्थबन्यत्वं ... तदाकारत्वश्चाभ्युपेयमिति बौद्धमतमपाकृतम् ।
.. .. २०६-१९
"Aho Shrutgyanam"