________________
४८
विषयाः ३३ स्वयोग्यार्थस्य विशदतया निर्णयः स्वार्थसंवेदनमिति प्रथमव्याख्याने तेन । ___ संशयविपर्ययानध्यवसायदर्शनेन्द्रियकारकसाकल्याद्यऽविकल्पानां मामाण्यनि___ रासः कृतः ।
२०१-२१ ३४ स्वार्थयोर्यथाऽवस्थितत्वेन निश्चयः स्वार्थसंवेदनमिति द्वितीयव्याख्याने
भाट्ट-मुरारिमिश्र-नैयायिक-कापिलानां मतमपाकर्तुं स्वशब्दस्य ज्ञानाद्वैतवादिमाध्यमिकवेदान्तिनां मतमपाकर्तुमर्थशब्दस्य चोपादानं, सम्पूर्णलक्षणवाक्येन तु
परपरिकल्पितस्याऽर्थोपलब्धिहेतुत्वादेः प्रमाणलक्षणत्वनिरासः । २०१-२५ ३५ उक्तलक्षणगतार्थमेव स्वपरव्यावसायिज्ञानं प्रमाणमिति लक्षणम् , तत्र प्रतिपाद्यानुसारेण लक्ष्य-लक्षण-तदुभयविधानमिति ।
२०२-१ ३६ प्रमाणत्वे विवदमान प्रति विवादास्पदं ज्ञानं प्रमाणमिति स्वपरव्यवसायि
ज्ञानत्वे विवदमानं प्रति च विवादास्पदं प्रमाणं स्वपरव्यवसायिज्ञानमिति शून्यवादिनम्प्रति च सम्पूर्णलक्षणमेव विवेयमिति।।
२०२-६ ३७ अत्र स्वपरव्यवसायि ज्ञान प्रमाणमिति न युक्तं ज्ञानस्य स्वविषयकत्वाभावादिति नैयायिकस्य पूर्वपक्षः ।
२०२-१४ ३८ ज्ञानस्य परव्यवसायित्वं प्रमाणसिद्धमपि स्वव्यवसायित्वं न प्रमाणसिद्धमिति प्रपञ्चत उपपादितम् ।
२०२-१६ ३९ स्वप्रकाशवादिनामाहतानां प्रतिविधानं, तत्र 'एकस्मादेव विषयावभाससिद्धेः किं
द्वयकल्पनया इति नियमबलाल्लाघवादेकस्यैवार्थविषयकत्ववत्स्वविषयकत्वम् । २०३-१३ ४० न्यायमते यथा प्रतियोगित्वादिकमाश्रयस्वरूप नातिरिक्त तथा जैनमते स्ववि
पयकत्वं स्वस्वरूपमेवेति स्वविषयत्वविषयत्वसिद्धथा स्वप्रकाशत्वसिद्धिरित्याधुपदर्शितम् ।
२०३-१७ ४१ मेदनियतस्य विषयविषयिभावस्य नाभेदे स्वीकारार्हत्वमित्यस्य भेदनियतस्य
विशेषणविशेष्यभावस्य घटाभावे घटाभाव इति प्रतीतिबलाद्यथाऽभेदे स्वीकारः स्वभावविशेषात्तथा प्रकृतेऽभेदेऽपि स्वभावविशेषादेव सः, स्वभावविशेषश्च निर्वक्तुमशक्योऽपि शर्करामाधुर्यविशेषवत्प्रत्यारव्यातुमशक्य इति व्यवस्थापितम्।
२०३-२६ ४२ ज्ञानं स्वविषये व्यवहार प्रवर्तयत्स्वाविषयेऽपि स्वस्मिन व्यवहारं प्रवर्तयति
स्वव्यवहारशक्तत्वमेव स्वविषयत्वं, तच्चाभेदेऽपीति प्रभाकरानुयायिमतमात्माश्रयान्योन्याश्रयदोषग्रस्तत्वादसङ्गतमिति व्यवस्थापितम् ।
२०४-२
"Aho Shrutgyanam"